Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 41
________________ श्रीप्रमेयरत्नकोषः । भावानां वा । आद्ये पक्षे कक्षीक्रियमाणे विनाशहेतूनामानर्थक्यं, यतो यो यः स्वभावः स स्वहेतोरेवोत्पद्यमानस्तादृशो भवति, न पुनस्तद्भावे हेत्वन्तरमपेक्षते, यथा- प्रकाशद्रवोष्णकठिनादिस्वभावाः प्रदीपादयो न तत्स्वभावतायां 5 हेत्वन्तरापेक्षिणः; विनश्वरस्वभावाश्च भावा भवद्भिरभ्युपगम्यन्ते । अथ यथा बीजमङ्करोत्पादस्वभावमपि तदुत्पादने जलेलानिलादिकं सहकारिकारणमपेक्षते, तद्वद्भावा अपि विनाशे भविष्यन्तीति चेत् । तन्न, यतः कतरस्य बीजस्य कारणापेक्षाभिधीयते, किमन्त्यावस्थाप्राप्तस्य कुशू10 लाद्यवस्थस्य वेति विकल्प्यते । अन्त्यावस्थाप्राप्तं तावद्धेत्वन्तरनिरपेक्षं स्वकार्य जनयत्येव, कुशूलाद्यवस्थं तु तज्जननस्वभावमेव न भवति, कारणकारणत्वात् । नापि " अविनश्वरस्वभावानां भावानां विनाशो विनाशहेतुभिर्विधीयते” इत्यभ्युपगन्तव्यं, वस्तूनां स्वभावान्यथात्वस्य पुरंदरशतैरपि 15 कर्तुमशक्यत्वात् । अथ यथा ताम्रादीनां कठिनादिस्वभावानां वादिभिरन्यथात्वं विधीयते, तथाविनश्वरस्वभावानामपि विनाशो विधातव्य इति चेत् । न तत्रान्यथाकरणस्य दुरुपपादत्वात् । तथाहि । तस्मादन्यथात्वं भिन्नं वा विधीयते, अभिन्नं वा । अभेदे स एव निर्वर्तितो भवति, 20 भेदे तु न किंचित्तस्यापकृतं स्यात् संबन्धाभ्युपगमे दूषणमुदीरितमेवेति न स्वभावान्यथात्वकरणमुपपद्यते, यतोऽपि नाम भावाः स्वयमेव भवेयुर्न पुनः स्वयं विद्यमानाः स्वस्वभावं परित्यज्य स्वभावान्तरमुररीकुर्युः । अथ कथं तर्हि ताम्रादीनां कठिनादिस्वभावापरित्यागेन द्रवादिरूपो25 पलम्भ इति चेत् । अत्रोच्यते । वस्तुव्यवस्थाकठिनादिस्वभावस्ताम्रादिः स्वरसतो निरुध्यमानो वह्न्यादिकारणम ३४ 1 A कारणं कारणत्वात्

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82