Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 37
________________ श्रीप्रमेयरत्नकोषः। र्णव इवालब्धपारं भवदिच्छयोच्यते मुच्यते वेति वादिघटमुद्रोऽयं वादः॥६॥ Į VII] [अथ सामग्रीभङ्गवादः] - 5 कैश्चित्सामग्र्यभ्युपगम्यते ।सा च समग्रेभ्यो भिन्नावाभ्यु पगम्यते, अभिन्ना वा । तत्र यदि भिन्ना, तदो तस्यास्तैः सह कोऽयं संबन्धः किं तादात्म्यलक्षणः, तदुत्पत्तिलक्षणो वा । तत्र न तावत्तादात्म्यलक्षणः संबन्धो जाघटीति, यतस्तादात्म्ये हि सामग्री वा स्यात्, समग्रा वा स्युरिति । 10 अथ तदुत्पत्तिलक्षणः, तदा हि सामग्र्या समग्रा जन्यन्ते, समग्रैर्वा सामग्री जन्यत इति पक्षद्वयम् । तत्र न तावत्सामग्र्या समग्रा जन्यन्ते, स्वकारणकलापादेव तदुत्पत्तिरिति । अथ समग्रैः सामग्री जन्यते; तत्र प्रष्टव्यं “सा तैर्जन्यतेऽन्यसामग्रीसव्यपेक्षैः, तन्नियंपेक्षा" । तत्र यद्य15 न्यसामग्रीसव्यपेक्षैः सामग्री जन्यते, तदापरस्याः सामग्र्या जननेऽपरा; तथापरस्या अपरेत्यनवस्थादौःस्थ्यं स्यात् । अथ निरपेक्षैः, तदा यथा समग्रैः सामग्री जन्यते, एवं . कार्यमपि कस्मान्न जन्यत इति । तस्मात्समग्रेभ्यो भिन्ना सामग्री नास्त्येवेति विरम्यते सामग्रीभङ्गवादः॥७॥ [VIII] [अथ क्षणिकवादः] यत्सत्तत्सर्व क्षणिकं, अक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् । तथाहि । तदक्षणिकं वस्तु क्रमेणार्थक्रियां कुर्यात् , यौगपद्येन वा । तत्र न तावदाद्यः पक्षः, यतो 25 ऽनागतकालभाविन्यामर्थक्रियायां यत्करणसामर्थ्य तदाद्यक्षणे विद्यते वा न वा । विद्यते चेत्, तदाद्यक्षण एव 1 A. omits 2 A omits 3 A पक्षं द्वयम् 20

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82