Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्रीप्रमेयरकोषः ।
"
नुषङ्गेनैवोभयात्मकपक्षस्य दुष्टत्वान्नोभयाश्रितं साधनं साध्यसिद्धिं विदध्यात् । तन्न सामान्यरूपेण । अस्तु तर्हि विशेवरूपेण तेनापि किं यस्य साध्यधर्मः साधयितुमिष्टः, तद्धर्याश्रितेन दृष्टान्तधर्म्याश्रितेनं, उभयधर्म्याश्रितेन वां । 5 तत्र यद्याद्यः पक्षः, तदा दृष्टान्तः साधनविकलतालक्षणदोषमषीकालुष्यमङ्गीकुर्यात् । अथ दृष्टान्तधर्म्याश्रितेन साधनेन साध्यत इति पक्षः, तत्राप्यन्यधर्मस्यान्यत्राविद्यमानभावेन साधनस्यासिद्धान्ताभिधानो दोषोऽनुधावमानो न मनागपि विश्राम्यति । नाप्युभयगतेन, विशेषरूपत्व10 हानेः प्रत्येकनिराकरणेनोभयात्मकस्य निराकृतत्वाच्च, “प्रत्येकं ये प्रसज्यन्ते द्वयोर्भावे कथं न ते" इति वचनात् । अथाचक्षीथा इत्थं "धर्माणां किमेते साध्यधर्माश्रयाश्रिताः सपक्षलक्षणाश्रयाश्रिता वा" इत्यादि यदि कल्प्यते, तदादः कार्यत्वान्यत्वलेशेन " यत्साध्यासिद्धिदर्शनं तत्का15 र्यसमं ” इति वचनात्कार्यसमाभिधानम् । अनाबाधं जात्युतरं भवतां समासज्येतेति चेत्, तदयुक्तं, एतत्स्वरूपस्यापरिज्ञानात् । तत्स्वरूपं ह्येवं पूर्वाचार्यैरभ्यधायि । यत्र हि साध्येन सह सामान्यसाधनधर्मस्य विपक्षे बाधकप्रमाणप्रवृत्त्या प्रतिबन्धे सिद्धेऽपि धर्मविशेषमाश्रित्य प्रेरणा 20 क्रियते, तज्जात्युत्तरं भवति । यत्पुनः सामान्येन प्रतिबन्ध - सिद्ध्यभावेन धर्मभेदकल्पना विधीयते, तत्सर्वथैव तदंशगन्धमपि न स्पृशतीति । अतोऽयुक्तं " यदुत कार्यसम जात्युत्तरं " इति । अपि च । कीदृशमपि समस्तु, परं तदपि साध्यसिद्धिनिबन्धनाय विधीयमानं किं स्वतन्त्रभावेन वा 25 स्यात्, प्रसङ्गसाधनं वा भवेत् । यदि स्वतन्त्रेण तदा हेतुरन्यतमासिद्धत्वदोषदूषितः काचकामलोपजनितान्ध्य
1
1 B C omit 2 B adds इति विकल्पौ 3 A adds कल्पना
२८

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82