Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्रीप्रमेयरत्नकोषः। दुर्घटत्वात् “गृहीतव्याप्तिकं” इत्ययमपि पक्षो विशीर्यते । तस्मान्न सामान्यरूपविशेषरूपयोः संबन्धो भवति । नापि सामान्यरूपयोःसंबन्धः, यतस्तयोः किमाश्रितयोः, अनाधितयोर्वा । न तावदनाश्रितयोः, तयोरुपलब्धिलक्षणप्राप्तयोरप्यनुपलभ्यमानत्वेन संबन्धस्य ग्रहीतुमशक्यत्वात् । आश्रि- 5 तयोरपि किं व्यत्तयाधारयोः,तद्व्यतिरिक्तयोर्वा । यदि व्यतिरिक्तयोः, तन्न, तयोरसंभवादेव, संभवित्वे वोपलब्ध्यादिप्राप्तेः। व्यक्त्याधारयोराश्रितयोरपि किं साध्यमानसाध्ययु क्तव्यत्याश्रितयोः, अपरस्थितयोर्वा न तावत्प्रथमः पक्षः, एकव्यक्तिसंश्रितयोः प्रतिबन्धस्याग्राह्यत्वात्, "द्विष्ठः सं-10 बन्धः" इति वचनात् । अथान्यस्थितयोस्तयोरपि किं पूर्वसापेक्षयोः, निरपेक्षयो । यद्यनन्तरः पक्षः, तदानन्तरोक्त एव दोषः। अथ सापेक्षयोः, तत्रापि साध्यमानधर्माश्रयनियतव्यक्तिदृष्टान्तलक्षणापरव्यक्त्योरेकस्मिन्देशे युगपदवस्थानाभावात्कथं तदाश्रयत्वं, येन संबन्धो गृह्यते । गृहीतोऽपि न सा-15 ध्यसिद्धेरङ्गत्वाय जायते । यः किल सकलदेशकालव्याप्त्या प्रतिबन्धः साध्यसाधनयोः सिद्धः, स एवाभिमतसाध्यसाधनाय साधीयान् , न पक्षसपक्षमात्रगृहीतः । तस्मान्न सामान्यरूपयोरपि संबन्धग्रहः । भूयोऽपि । सामान्यरूपं साधनं किमुभयाश्रितं, अनुभयाश्रितं वा साध्यं साधयति । 20 यदि तावदनुभयाश्रितं, तन्न, साधकत्वानुपपत्तिप्रसङ्गात् । तथाहि । यन्न प्रतिज्ञामाश्रितं नापि दृष्टान्तितं, तत्साधनं साध्यं कथं पक्षे साधनभावेन साधयेत् । नाप्युभयाश्रितं, तस्यासंभवात् । तथाहि । यत्साधनस्वरूपं सपक्षे समस्ति पक्षेऽपि किं तदेव, आहोस्विदन्यत् । यद्यन्यत् , कथमु-25 भयाश्रितं, अन्यत्वादेव । अथ तदेवेति, कथमेकमेककालमुभयमाश्रयतीति । किं च । प्रत्येकपक्षप्रतिपादितदोषा
1 A व्यक्त्याधारयोरपि

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82