________________
श्रीप्रमेयरत्नकोषः। र्णव इवालब्धपारं भवदिच्छयोच्यते मुच्यते वेति वादिघटमुद्रोऽयं वादः॥६॥
Į VII]
[अथ सामग्रीभङ्गवादः] - 5 कैश्चित्सामग्र्यभ्युपगम्यते ।सा च समग्रेभ्यो भिन्नावाभ्यु पगम्यते, अभिन्ना वा । तत्र यदि भिन्ना, तदो तस्यास्तैः सह कोऽयं संबन्धः किं तादात्म्यलक्षणः, तदुत्पत्तिलक्षणो वा । तत्र न तावत्तादात्म्यलक्षणः संबन्धो जाघटीति, यतस्तादात्म्ये हि सामग्री वा स्यात्, समग्रा वा स्युरिति । 10 अथ तदुत्पत्तिलक्षणः, तदा हि सामग्र्या समग्रा जन्यन्ते,
समग्रैर्वा सामग्री जन्यत इति पक्षद्वयम् । तत्र न तावत्सामग्र्या समग्रा जन्यन्ते, स्वकारणकलापादेव तदुत्पत्तिरिति । अथ समग्रैः सामग्री जन्यते; तत्र प्रष्टव्यं “सा
तैर्जन्यतेऽन्यसामग्रीसव्यपेक्षैः, तन्नियंपेक्षा" । तत्र यद्य15 न्यसामग्रीसव्यपेक्षैः सामग्री जन्यते, तदापरस्याः सामग्र्या
जननेऽपरा; तथापरस्या अपरेत्यनवस्थादौःस्थ्यं स्यात् । अथ निरपेक्षैः, तदा यथा समग्रैः सामग्री जन्यते, एवं . कार्यमपि कस्मान्न जन्यत इति । तस्मात्समग्रेभ्यो भिन्ना सामग्री नास्त्येवेति विरम्यते सामग्रीभङ्गवादः॥७॥
[VIII] [अथ क्षणिकवादः] यत्सत्तत्सर्व क्षणिकं, अक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् । तथाहि । तदक्षणिकं वस्तु क्रमेणार्थक्रियां कुर्यात् , यौगपद्येन वा । तत्र न तावदाद्यः पक्षः, यतो 25 ऽनागतकालभाविन्यामर्थक्रियायां यत्करणसामर्थ्य तदाद्यक्षणे विद्यते वा न वा । विद्यते चेत्, तदाद्यक्षण एव
1 A. omits 2 A omits 3 A पक्षं द्वयम्
20