________________
२९
श्रीप्रमेयरत्नकोषः। परिकरितस्वरूपलोचनः पुरुष इव न साध्यावगमनमार्गनिभालनकरणप्रवणः स्यात् । तथाहि । यथाविधं साधनमनाबाधमस्माकमधिगतंप्रसिद्धिकं किं भवतामपि तादृशं, किं वान्यादृशमिति विकल्पद्वयम् । तत्र यद्याद्यः कल्पनापथमवतार्यते, स नावतरति । तथाह्यधिगतनिरवधिसाध- 5 नपरंपरापरिचयव्यसनो भवदभ्युपगमः प्रसज्येत । ततः स्वातन्त्र्येण साधनमभ्युपेत्यास्मदभिमतसाधनस्वीकारं कुवनस्मत्पक्षमेव समर्थयसे । तन्न प्रथमो विकल्पः । नापि द्वितीयः । तस्मिन्नभिधीयमाने यथा ममेदं साधनं सिद्धं न तथा तव, अन्यरूपेण भवतः सिद्धत्वात् । अतः कथं 10 नान्यतरासिद्धता हेतोः स्यात् । अथ शब्दमात्रेण सिद्ध एवावयोः कथमसिद्ध इति चेत् । न, शब्दमात्रसिद्धावपि न हेतुसिद्धिः । वस्तुन एव हेतुत्वेन वस्तुनो हि वस्तुसिद्धिः
तस्यैव व्यभिचारादौ शब्देऽप्यव्यभिचारिणि। 15
दोषवत्साधनं ज्ञेयं वस्तुनो वस्तुसिद्धितः ॥ इति वचनात् । तन्नै “स्वातन्त्र्येण" इति । अथ प्रसङ्गसाधनमिति पक्षसमाश्रयणादनन्तरोदितदोषापादनाभाव एव; तथापि विपर्यये गच्छतो न हेतोर्बाधकप्रमाणोपदर्शनं, तदभावादनैकान्तिकत्वं हेतोः । को ह्यत्र प्रतिबन्धः। 20 यद्विवक्षितमेव साध्यं साधयति साधनं नाविवक्षितमपि । तस्मात्प्रसङ्गसाधनमिदं साधनमुपन्यस्यत इत्यपि पक्षोऽन्तरिक्षबिसप्रसूनसत्तामाश्रयतीति कथं साधनेन साध्यावमतिरित्यादि हेतुस्वरूपविचारणे वादिवृन्दारकविजयकरणे भो भोः पण्डित निरवद्यविद्यामण्डनमण्डित यदेत-25 दास्माकीनं संस्कृतं केनाप्यतिरस्कृतमुद्दण्डदण्डकसारं तद.
1 A हेतुः सिद्धिः 2 A सिद्धेः BC add तथा चोक्तं 3 A omits तत्