Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 23
________________ श्रीप्रमेयरत्नकोषः। अथवा सामान्येन घटेषु मध्ये कसिंश्चिद्विशेषे परिगृहीते प्रतिनियतो यः संस्थानादिः स स्वः, इतरः पुनः परः । तत्र प्रतिनियतेन घटः, नेतरेण । यदीतरात्मकोऽपि स्यात्, एकघटमात्रप्रसङ्गः । ततश्च सामान्याश्रयो व्यवहारोऽपि 5 न स्यात् । यद्वा तस्मिन्नेव घटविशेषे कालान्तरावस्थायिनि पूर्वोत्तरकुसूलान्तकपालादिकावस्थाकलापः परात्मा, तदन्तरालवर्तिपर्यायः स्वः। स तेनैव घटः, तत्कृतकर्मगुणव्यपदेशदर्शनात्, नेतरात्मना । यदि च कुसूलान्तकपाला द्यात्मकेनापि घटः स्यात्, घटावस्थायामपि तदुपलब्धिर्भ10वेत, उत्पत्तिविनाशार्थपुरुषप्रयत्नफलाभावश्चानुषज्येत । अथान्तरालकालवर्तिपर्ययात्मनाप्यघटः स्यात्ः घटकृत्यं फलं नोपलभ्येत । ऋजुसूत्रादिनयापेक्षयापि यत्स्वरूपं किंचनाभ्युपगतं, तदपेक्षया सन् घटः, द्रव्यापेक्षयापि यद्रव्यमुपादाय वर्तते, तदपेक्षया सन् , न द्रव्यान्तरापेक्षया । 15 क्षेत्रापेक्षयापि यत्र क्षेत्रेऽवगाहः, तदपेक्षया सन् , न क्षेत्रान्तरापेक्षया । कालापेक्षयापि कुसूलान्तकपालादिविचालकाले सन्, न कालान्तरे । भावापेक्षयापि तस्मिन्विवक्षिते भावे वर्तमानः सन् , न भावान्तरे। आदिग्रहणात्स्वकार्यापेक्षया कर्ता, न परकार्यापेक्षया ॥ ततश्चेत्थमपेक्षया सद20 सदाद्यनेकधर्मपरिकरितं वस्तु समश्रीयमाणं सर्वज्ञशासने कथं व्यपदेशार्ह भवति । अतः सप्तभिः प्रकारैरभिधीयते । स्वद्रव्यक्षेत्रकालभावाद्यपेक्षया सन्परद्रव्यक्षेत्रकालभावाद्यपेक्षया चासन्प्रधानीकृतस्वरूपोऽप्रधानीकृतपरस्वरूपादिस त्त्वः " स्यात्सन् घटः" इत्युच्यते । स्वपरस्वभावोपेतव्य25 पोढस्वरूपत्वाद्वस्तुस्वभावस्येदं वाक्यमेकान्तसत्त्वप्रतिपा दकवादिमतनिराकरणार्थमुच्यते । यतः स्याच्छब्दोऽयं क्रियाप्रतिरूपको निपातो विधिविचारणास्तित्वविवादानेका 1 A योऽयं

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82