Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
२०
श्रीप्रमेयरत्नकोषः। स्यान्नास्त्यवक्तव्यश्च ” इत्यत्र सप्तमभङ्गके विभक्ती संग्रहव्यवहारावविभक्तो चेत्येवमर्थपर्यायैः सप्तमवचने व्यवहारः । व्यञ्जनपर्यायाः पुनः शब्दनयाः। ते त्वभेदभेदद्वारेण वचनमिच्छन्ति । शब्दनयस्तावत्समानलिङ्गानां 5 समानवचनानां च शब्दानामिन्द्रशक्रपुरंदरादीनां वाच्यं भावार्थमेवाभिन्नमभ्युपैति, न जातुचिद्भिन्नलिङ्गं भिन्नवचनं वा शब्दम् । स्त्री दाराः, तथापो जलमिति, समभिरूढस्तु प्रत्यर्थशब्दनिवेशादिन्द्रः शक्रादीनां पर्यायशब्दत्वं न प्रतिजानीते । अत्यन्तं भिन्नप्रवृत्तिनिमित्तत्वाद्भिन्नार्थमेवा10 नुमन्यते घटशक्रादिशब्दानामिवेति, एवंभूतः पुनर्यथास
द्भावं वस्तु वचसो गोचरमाप्रतीच्छति । चेष्टाविशिष्ट एवार्थों घटशब्दवाच्यः, चित्रालेखनोपयोगपरिणतचित्रकरवदिति । चेष्टारहितस्तिष्ठन् घटो न घटशब्दवाच्यः, तच्छब्दार्थरहितत्वात् , पटवदिति । एवमभेदभेदार्थवादिनोऽनेकैकशब्द15 वाच्यार्थावलम्बिनश्च शब्दप्रधानार्थोपसर्जनाः शब्दनयाः प्रदीपवदर्थस्य प्रतिभासका व्यञ्जनपर्यायसंज्ञकाः। तदेवमर्थव्यञ्जनपर्यायार्पणानर्पणद्वारकानेकात्मकैकार्थनिरूपणवदभिधानप्रत्ययविषयाविर्भावना विधेया। सप्तभङ्गिकायाः
शब्दप्रवृत्तिनिबन्धनं भावघटमाश्रित्य तथान्येषामपि भा20 वानां विषये सप्तभङ्गिका द्रष्टव्या घटदृष्टान्तेनैव । न च वक्तव्यं “ ऋजुसूत्रादीनां शब्दार्थयोः संबन्धाभावादेव वाच्यवाचकभावो नास्ति, ततः कथमर्थविषये वाक्यप्रयोगः सप्तधा फलवान् ” इति सप्तभङ्गिका समाप्ता ॥
[v] 25 [अथैकान्तनित्यानित्यवादभङ्गः ]
इह ह्येकान्तनित्यानित्यवस्तुवादितीर्थान्तरीयाभिमतसर्वज्ञस्य सद्भूतवस्तुवादित्वं न जाघटीति । तथाहि । ये 1 A बभेदे न भेदद्वारेण 2 A °दिन्द्रशक्रादीनां

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82