Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 31
________________ २४ श्रीप्रमेयरत्नकोषः। चार्थक्रियासमर्थमेकान्तेन नित्यमनित्यं च वस्त्वित्युपरम्यतं एकान्तनित्यानित्यभङ्गः ॥५॥ [VI] [अथ वादिघटमुद्गरवादः॥] 5 इह पूर्व पूर्वपक्षं कुर्वद्भिः सद्भिर्भवद्भिरभिमतसाध्यसाधनायेदमनुमानमुपन्यस्तम् । एतच्च सारेतरविचारचतुरचेतोभिर्विचार्यमाणं न चारुतया चतुरचेतसां चेतसि चकास्ति, साध्यसिद्ध्यनिबन्धनत्वात्साध्यसिद्ध्यनिबन्धनत्वं चास्य प्रत्यनुमानबाधितत्वात् । तथाहि । येन यत्रं यदर्थमुपन्य10 स्यमानेन तदर्थप्रतिपत्तिर्न जायते न तस्मिंस्तदुपन्यासाह; यथेह पटं प्रति घटः।न जायते च भवद्भिरुपन्यस्यमानेनानेन साधनेन साध्यधर्मिणि साध्यप्रतिपत्तिरिति व्यापकविरुद्धोपलब्धिः। न च “व्यापकविरुद्धोपलब्धिरसिद्धतामात्मनि प्रकाशयति" इति वक्तुं युक्तं युक्तियुक्तचेतसां पुंसाम् । 15 तदाहीयं व्यापकविरुद्धोपलब्धिरसिद्धतामात्मनि प्रकटीकु यद्यदि, केनापि प्रकारेण भवतोपन्यस्तस्य साधनस्य साध्यं साधयितुं सामर्थ्य स्यात् । न च “नियुक्तिकमभिधीयमानं कश्चिद्विपश्चिनिश्चिनुयात्" इति कृत्वा । यथैवास्य भवतोपन्यस्तस्य साधनस्य साधयितुं साध्यं सामर्थ्य न विद्यते, 20 तथैव तर्कवितर्कसंपर्ककर्कशमतिभिरस्माभिर्न वेद्यते । परं तर्कवितर्कसंपर्ककर्कशमतीनामस्मादृशानां पुरतो वाचस्पतेरपिन प्रवर्तन्ते वाचः किं पुनर्भवादृशानाम् । अथ गर्वोद्धरः सन्नबन्धुरबुद्धिरपि किमपि वावदीषि। तदानीं वद। पच्यतां त्वदीया अपि मण्डकाः, वयं पुनर्यचेतावती भुव. 25 मागत्य सपूर्वपक्षोत्तरवादं न वदामः, तदानीं सैव निखिलत्रैलोक्यवन्दनीयपादारविन्दा काश्मीरमण्डलमण्डनं भगव. ती श्रीशारदा लज्जते । तत्रापि साध्यसिद्धिनिबन्धनं हेतुः, _1A omits 2 BC यत्र यत्र 3 BC omit

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82