Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 30
________________ २३ श्रीप्रमेयरत्नकोषः। निविप्रलब्धबुद्धीनां; परमार्थतस्तु न क्रमेणैकं किंचित् , अनेककार्यकर्तृभिन्नानामेव भिन्नकार्यकर्तृत्वात् । तदप्रयुक्तं, यतोऽज्ञाननिबन्धनोऽयं व्यवहारः, न च क्षणिकस्य ज्ञानस्यैवंरूपव्यवहारनिरूपणनिपुणता' । तथाहि । ग्राह्यस्य ग्राहकस्य च निरन्वयविनाशे सति यत्प्रथमक्षणभावि रूपं । न तद्वितीयादिक्षणेष्वस्तीत्यभ्युपगम्यते । ततश्च प्रथमक्षणभाविरूपग्राहकस्य ज्ञानस्य द्वितीयादिक्षणभाविभावरूपसमयेऽभावात्प्रथमक्षणे च द्वितीयादिक्षणभाविनामभावात्कस्तत्र सदृशापरापरोत्पत्तिदर्शनेन विप्रलब्धः । तस्माद्भवतामेवाननुभूतार्थवादिनां युक्तिरिक्तवचसा भ्रम इति । नापि, योगपद्येन, यतो योगपद्यं युगपत्कर्तृत्वं, तच्चैककालमनेककर्तृत्वं; न चैकस्वभावस्य तद्युज्यते। तथाहि । भावः कार्य कुर्वन्येनैव स्वभावेनैकं करोति द्वितीयमपि तेनैव, स्वभावान्तरेण वा । यदि तेनैव, कथं कार्यभेदः, कारणस्वभावनिवन्धनत्वात्कार्यभेदस्य । न च वाच्यं “ सहकारिसामग्रीभेदात्कार्यभेदः” इति, यतस्तत्राप्ययं पर्यनुयोगस्तदव. स्थ एव । तथाहि । किं येनैव स्वभावेनैकसहकारिसामग्यां सत्यां पिपर्ति किं द्वितीयसहकारिसामग्र्यामपि तेनैव, स्वभावान्तरेण वा । न तावत्तेनैव, कार्याभेदप्रसङ्गस्य तादवस्थ्यापत्तेः । न च तत्रापि सामग्र्यन्तरापेक्षा, अनव-20 स्थापत्तेः। अथ स्वभावान्तरेण तदानेकस्वभावत्वं भावस्य स्यात्तथा सामग्रीवैफल्यं च । स्वस्वभावेनैव भिन्नकार्यकरणे समर्थत्वात्केवलमेवमभ्युपगमे क्रियानेकान्तवादापत्तिः, तथा चाभ्युपेतबाधेति । तदेवं नित्यस्यानित्यस्य चार्थक्रियासमर्थत्वाभावादवस्तुत्वम् । अत्र प्रयोगः। यदर्थक्रियास-25 मर्थं न भवति, तदवस्तु, यथा शशविषाणम् । न भवति 1 A °वंरूपं व्यव

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82