Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 26
________________ श्रीप्रमेयरत्नकोषः। च नास्ति चावक्तव्यश्च" इति। यतो बुद्धिच्छेदविभक्तोऽवयवो देशः, तस्मिन्देश आदेशो भणनं देशादेशः, तेने प्रोच्यमानत्वात् । अथवा द्रव्यरूपतया स्वरूपेणैवास्ति घटः पररूपेण पुनर्नास्ति घटः।आभ्यां रूपाभ्यां युगपद्विवक्षायां सच्छब्देनासच्छब्देन वा वाच्यत्वेन समाश्रीयमाणों वाच्यो 5 घटो यदास्तित्वं नास्तित्वं च समुच्चयरूपतया वाच्यं भवति, तदा “ अस्ति च नास्ति च घटः "। प्रथमतृतीयभगसंयोगे " स्यादस्ति चावक्तव्यश्च ” इति पञ्चमविकल्पः। यदा द्वितीयतृतीयभङ्गसंयोगः, तदा "नास्ति चावक्तव्यश्च" इति षष्ठो विकल्पः । यदा पुनः प्रथमद्वितीयतृतीयभङ्गानां 10 संयोगः, तदा " स्यादस्ति च नास्ति चावक्तव्यश्च घटः" इति सप्तमो विकल्प इत्येवमर्थानुरोधाद्विवक्षावशाच्च सप्तधैव वचनप्रवृत्तिः, नान्यथा । प्रवृत्तिनिमित्ताभावादेष च मार्गो द्रव्यार्थपर्यायार्थाश्रयः, तौ च संग्रहाद्यात्मको, संग्रहादयश्चार्थशब्दनयरूपणं प्रधाविताः । तत्र संग्रहव्यव-15 हारर्जुसूत्रैरर्थनयैयौँ द्रव्यार्थपर्यायाौँ तदाश्रयैषा सप्तभङ्गी प्ररूपिता। तत्रार्थनयाः सत्त्वान्यासत्त्ववर्तमानसत्त्वमात्रैषिणः प्रत्येकात्मकाश्च सप्तविधवचननिर्वर्तनप्रत्यलाविविक्तसत्तामात्रपरिग्रहात्सत्त्वं संग्रहः । अन्यासत्त्वमेव सत्त्वमिति व्यवहारः। वर्तमानप्रधानत्वाद्वर्तमानमेव सत्त्वमित्यजुसू-20 त्रम् । तत्र “स्यादस्ति" इति संग्रहः । " स्यान्नास्ति" इति व्यवहारः । संग्रहव्यवहारयोगात् “ स्यादवक्तव्यः”। संग्रहव्यवहारयोगादेव " स्यादस्ति च नास्ति च" चतुर्थः । " स्यादस्त्यवक्तव्यश्च" इत्यत्र संग्रहः, संग्रहव्यवहारौ चाविभक्तौ । " स्यान्नास्ति चावक्तव्यश्च ” इत्यत्र 25 भङ्गके व्यवहारः; संग्रहव्यवहारौ चाविभक्तौ । “स्यादस्ति 1 A omits 2 BC देशादेशत्वेन instead of देशादेशः, तेन. 3 A°माणे 4 BC omit 5 A संग्रहश्वार्थ 6 A B प्रधावितः

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82