Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्रीप्रमेयरत्नकोषः।
ता। स्वरूपसत्त्वस्य पररूपासत्त्वस्य चाङ्गीकृतत्वात् । अत्र प्रयोगः । “ सन् घटः” इति वाक्यं विवक्षया साध्यविपक्षमपि प्रतिपादयति निरवधारणत्वात् । यद्यन्निरवधारणं तत्तत्साध्यविपक्षमपि प्रतिपादयति, यथा “बृहच्छ्रीफलं" इति वाक्यमपेक्षया बृहदपि । निरवधारणं चेदम् । तस्मा-5 साध्यविपक्षप्रतिपादकमपीति । ततः कथं " सन् घटः" इत्यादिवाक्यादैकान्तिकसत्त्वमिति प्रतिपत्तिरिति । अथ सावधारणं प्रयुज्यते । तत्किं साक्षात्प्रयुज्यमानावधारणं, यद्वान्तभूतावधारणम् । न तावत्साक्षात्प्रयुज्यमानावधारणं, अवधारणपदस्याश्रवणात् । अथान्तभूतावधारणं; तत्किं 10 " सन्नेव घटः" इत्यवधार्यते, “ घट एव सन्” इति वा " सन्नेव घट एव" इति वा । तत्र न तावदाद्यो विकल्पः, घटमानको घटस्य सर्वप्रकारैः सत्त्वस्य प्रोच्यमानत्वात् सर्ववस्तुस्वरूपसंकीर्णतापत्तिर्नास्तित्वनिरवकाशशब्देनाभिधीयमानत्वात् । अनिष्टं चैतत् । प्रतिनियत एव सन्निति । 15 अथ द्वितीयो विकल्पः, तर्हि यः कश्चनापि सन्स घट . एव प्राप्नोति, नापरं वस्तु, वस्त्वन्तरस्यावधारणेन व्यवच्छिद्यमानत्वात् । अथ तृतीयो विकल्पोऽभ्युपगम्यते; तर्हि पक्षयुगलोक्तं दूषणं युगपदापद्येत । यदुक्तम् ।
प्रत्येकं यो भवेदोषो द्वयोर्भावे कथं न सः। 20 अत्र प्रयोगः । “ सन्नेव घटः” इति वाक्यं विवक्षितार्थप्रतिपादकं न भवति, निरर्थकत्वात् । यद्यन्निरर्थक तत्तद्विवक्षितार्थप्रतिपादकं न भवति, यथा शुकशुकाशब्दः। तथा चेदम् । तस्मान्न विवक्षितार्थाभिधायकमिति । एवं विकल्पद्वयेऽपि स्वमत्याभ्यूह्यानुमानं वक्तव्यम् । अथैव-25 मुच्यते "अनेकधर्मपरिकरितं वस्तु कथं सिध्यति" इति । सद्भावावेदकप्रमाणाभावादिति चेत् । न, प्रत्यक्षेणानेकधर्म1 B C कश्चनादि

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82