Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्रीप्रमेयरनकोषः। दाभ्युपगमात् । वयं खलु जैनेन्द्रा आक्षिप्तप्रतिपक्षानैकान्तधर्मस्वरूपनिरूपणात्स्याद्वादिन इति ॥
सामान्यं स्याद्भिन्नं स्यादभिन्नं स्याद्विकारि स्यादविकारि । विशेषा अपि स्याद्विकारिणोऽविकारिणश्चेत्यत्रापि सप्तभङ्गी न निवर्तते, अन्योन्यात्मकत्वात्सामान्यविशेषयो- 5 रिति । न च तावत्प्रतीयमानयोः सामान्यविशेषयोरपलापः शक्यते कर्तु, अनुभवलोकानुगमादिप्रमाणाविरुद्धत्वात् । तदपि च सामान्यं विशेषेभ्यो व्यतिरिक्तं स्यात् , अव्यतिरिक्तं वेति विकल्पद्वयं संभाव्यते।न तावदाद्यः पक्षो विदुषां मनांसि प्रीणयतीति द्वितीयः पक्षः समाश्रीयते । अतो 10 विकारिभ्यो विशेषेभ्योऽभिन्नस्वभावत्वात्सामान्यमपि कथंचिद्विकार्येव, अन्यथा सामान्यानुपपत्तेर्विशेषानुपपत्तिरपि स्यात् । प्रतीयते च विशेषोपपत्तिः। अतः मामान्यस्य परोपाधिको विशेषो विकारः, स्वोपाधिकस्त्वविकार इति स्यात्सामान्यं विकारीति सिद्धो नः सिद्धान्त । तथा 5 सामान्यादव्यतिरेकेणे विशेषाः समुपलभ्यन्ते, अन्यथा वस्तुस्वभावाभावप्रसङ्गात् । तदव्यतिरिक्तत्वात्सामान्यवद्विशेषाणां चाविकारित्वं, अन्यथाभेदप्रसङ्ग स्यादिति विशेषाणामप्यविकारः परोपाधिकः, विकारस्तु स्वोपाधिक इति स्यादविकारिणो विशेषा विकारिणश्चेति न कश्चिद्दो-20 षः । तस्माद्रौव्यमेवोत्पादविनाशौ । तथा न च घटोत्पाद एव घटाभावः, सकललोकप्रसिद्धजलाद्यानयनाद्यर्थक्रियाव्युपरतेः । अत उत्पाद एवोत्पादः, न. विनाश इति । तथा घटोत्पादो हि मृत्पिण्डचक्रचीवरादिसयोगहेतुकः, विनाशस्तु मुसलमुद्गरादिहेतुसंपातोपनीतकर्मजनितसं-25
_1 A अक्षिप्तप्रतिपक्षनै 2. A सामान्याव्यति 3 A reads अत उत्पाद एव विनाश इति 4 the words हि ...... विनाशस्तु are omitted in A; in B they are a marginal addition

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82