Book Title: Nyayamanjari Part 02
Author(s): K S Vardacharya
Publisher: Oriental Research Institute

Previous | Next

Page 708
________________ द्वादशमाह्निकम् 675 एव शिक्षित्वाऽहमपि चतुर्थपक्षस्थः तथैव त्वयि दोषमपितवानिति, मम चेन्मतानुज्ञा, प्रथमतरं तवासौ भवेदिति* || तदेतदाहस्वपक्षलक्षणापेक्षोपपत्त्युपसंहारहेतुनिर्देशे परपक्षदोषा भ्युपगमात्समानो दोषः ॥ ५-१-४३ ॥ . स्वपक्षः मूलसाधनवाद्युक्तः–'प्रयत्नानन्तरीयकत्वादनित्यः शब्दः' इति । तल्लक्षणः-तत्समुत्थानः, तद्विषयः 'प्रयत्नकार्यानेकत्वात्' इति प्रतिषेधः। तमपेक्षमाणः, तमनुद्धृत्य-अनुज्ञाय प्रवृत्तः 'प्रतिषेधेऽपि समानो दोषः' इत्युपपद्यमानः, परपक्षेऽनैकान्तिकत्वदोषोपसंहारः। तस्य च हेतुनिर्देश इत्ययमनकान्तिकः प्रतिषेध इति, तस्मिन् सति परपक्षकथितान कान्तिकत्वदोषाभ्युपगमात्, तदनुद्धरणेन तस्यैव प्रतीपदोषोद्भावनात् समानो मतानुज्ञादोष इति षष्ठः पक्षः ॥ . .. . [ षट्पक्ष्यां पक्षविवेचनम् ] सेयं षट्पक्षी । तस्यां प्रथमतृतीयपंचमाः । स्थापनाहेतुवादिन: । द्वितीय व तुर्थषष्ठाः प्रतिषेधवादिनः एते च साध्यसाधकत या परीक्ष्यमाणाः पौनरुक्त्यमतानुज्ञादिदोषापहतत्वात् अन्यतरस्यापि वादिनः साध्यसिद्धये न प्रकल्पन्ते ॥ तथा हि-चतुर्थषष्ठयोः पक्षयोः अर्थाविशेषात्पुनरुक्तदोषप्रसङगः । चतुर्थे पक्षे परस्य समानदोषत्वमुच्यते। षष्ठेऽपि तथैव समानः। तृतीय पंचमयोस्तृतीये पक्षे परोक्ष समानदोषत्वमभ्युपगम्यते । पंचमेऽपि मता. नुज्ञामुद्भावयता तदङगीकृतमेव भवति। तृतीयचतुर्थयोश्च परोक्तदोषा * इयमेव प्रतिबन्दीत्युच्यते। स्वपक्षे दोषमनभ्युपगम्य 'ममाऽयं दोषः इत्यु च्यते, तर्हि तवैवायं प्रथमो दोषः स्यात्' इति ॥ 1 तं-ख.

Loading...

Page Navigation
1 ... 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794