Book Title: Nyayamanjari Part 02
Author(s): K S Vardacharya
Publisher: Oriental Research Institute
________________
714
न्यायमञ्जरी तत्र भूतदोषाप्रतिपत्तिः अप्रतिमा। अभूतदोषप्रतिपत्तिः अननुयोज्यानुयोगः॥ अपि च
असाधनाङगवचनमदोषोद्भावनं च यत्।
भवता निग्रहस्थानमाख्यातं, 'तत्र कथ्यते॥ तत्र प्रसज्यप्रतिषेध एव केवलमाश्रियमाणे हेत्वाभासा अपि 'न. निग्रहस्थाने भवेयुः ? साधनङगस्यानभिधानं मौक्य मेव केवलं निग्रहस्थानं भवेत्। तस्मादसाधनाङगवचनं अदीषोद्धावनमपि पर्युदासव्याख्यानार्ह भवत्येव। ततश्च भूतदोषानुद्भावनमप्रतिभा, अभुतदोषो द्भावनं च निरनुयोज्यानुयोगः ॥
अथ *अभूतदोषोद्भावनेऽपि भूतदोषाप्रतिभानमस्त्येवेति तदेवास्तु निग्रहस्थानमित्युच्यते-तहि मूकत्वमेवैकं निग्रहस्थानं स्यात्, असाधना. डगवचनेऽप्येवं वक्तुं शक्यत्वादित्युक्तमेव ॥
[अपसिद्धान्तः] सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः ।
. ॥ ५.२.२४ ।। यः कंचन प्रथमं सिद्धान्तमभ्युपगम्य कथामुपक्रमते । तथा प्रवृत्तश्च' सिषाधयिषितार्थसमर्थनरभसेन, दूषणोद्धरणश्रद्धया वा सिद्धान्तविरुद्ध
.
* पूर्व नजि पर्युदासः, उत्तरं नञि प्रतिषेधः ।
1 तत्र-ख, घ, च,
'च-ख,
' ख्य-ख,
संगाच-ख,
Page Navigation
1 ... 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794