Book Title: Nyayamanjari Part 02
Author(s): K S Vardacharya
Publisher: Oriental Research Institute

Previous | Next

Page 748
________________ द्वादशमाह्निकम् 715 मभिधत्ते, सः अपसिद्धान्तेन पराजीयते। तद्यथा सांख्यः प्रतिवादिसन्निधाने नासतो विद्यते भावः नाभावो विद्यते सतः' इति *स्वसिद्धान्तं प्रथमं प्रतिज्ञाय प्रधानसिद्धये साधनप्रयोगं करोति, व्यक्तं विकारजातम्, एकप्रकृति, समन्वयदर्शनात् । मृद न्विता हि मृद्विकाराः कुण्डपिठरशरावप्रभृतय एकप्रकृतिका दृष्टाः; एवमस्यापि गवाश्वादिविकारजातस्य · सुखदुःखमोहान्वयदर्शनात् तदात्मकैकप्रकृति प्रभवत्वेन भवितव्यम् ॥ एवमुक्तवानसौ नैयायिकेनानुयुज्यते-अथ का प्रकृति म, का च विकृतिरिति । अविदितप्रकृतिविकृतिस्वरूपो हि कथं विकृतीनां एकप्रकृतित्वमेकत्वं जानीयादिति । एवमनयुक्तः कापिलः आह-यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते, सा प्रकृतिः। . यत् तद्ध. मन्तिरं प्रवर्तते सा विकृतिरिति ।। सोऽयमेवं वदन् प्रागभ्युपगतसद तन्निरोधप्रभवाभावसिद्धान्तविरुद्धाभिधानात् अपसिद्धान्तेन निगृह्यते ॥ .. यदि पूर्वधर्मनिरोधे धर्मान्तरप्रादुर्भावः, तदा 'नासतो विद्यते भावः नाभावो विद्यते सतः' * यद्यपीदं गीतावचनं सिद्धान्तेऽपि प्रमाणमेव । असतः शशशृङ्गादेः माव:उत्पत्तिः न। सतः घटादेः अभावः-अनुत्पत्तिः न इति च तदर्थः । ततश्चानेन शून्यवाद एव निराकृतः, न सिद्धान्तसंमतः भारम्भवादः। तथापि सांख्यानां अमिमानमङ्गीकृत्यानुवादः क्रियते ।। + प्रकृतिविकृत्यादिपदानि हि तन्मते पारिभाषिकाणि ॥ 1 स्वय-च.

Loading...

Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794