________________
द्वादशमाह्निकम्
715 मभिधत्ते, सः अपसिद्धान्तेन पराजीयते। तद्यथा सांख्यः प्रतिवादिसन्निधाने
नासतो विद्यते भावः नाभावो विद्यते सतः' इति *स्वसिद्धान्तं प्रथमं प्रतिज्ञाय प्रधानसिद्धये साधनप्रयोगं करोति, व्यक्तं विकारजातम्, एकप्रकृति, समन्वयदर्शनात् । मृद न्विता हि मृद्विकाराः कुण्डपिठरशरावप्रभृतय एकप्रकृतिका दृष्टाः; एवमस्यापि गवाश्वादिविकारजातस्य · सुखदुःखमोहान्वयदर्शनात् तदात्मकैकप्रकृति प्रभवत्वेन भवितव्यम् ॥
एवमुक्तवानसौ नैयायिकेनानुयुज्यते-अथ का प्रकृति म, का च विकृतिरिति । अविदितप्रकृतिविकृतिस्वरूपो हि कथं विकृतीनां एकप्रकृतित्वमेकत्वं जानीयादिति । एवमनयुक्तः कापिलः आह-यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते, सा प्रकृतिः। . यत् तद्ध. मन्तिरं प्रवर्तते सा विकृतिरिति ।।
सोऽयमेवं वदन् प्रागभ्युपगतसद तन्निरोधप्रभवाभावसिद्धान्तविरुद्धाभिधानात् अपसिद्धान्तेन निगृह्यते ॥ .. यदि पूर्वधर्मनिरोधे धर्मान्तरप्रादुर्भावः, तदा
'नासतो विद्यते भावः नाभावो विद्यते सतः'
* यद्यपीदं गीतावचनं सिद्धान्तेऽपि प्रमाणमेव । असतः शशशृङ्गादेः माव:उत्पत्तिः न। सतः घटादेः अभावः-अनुत्पत्तिः न इति च तदर्थः । ततश्चानेन शून्यवाद एव निराकृतः, न सिद्धान्तसंमतः भारम्भवादः। तथापि सांख्यानां अमिमानमङ्गीकृत्यानुवादः क्रियते ।।
+ प्रकृतिविकृत्यादिपदानि हि तन्मते पारिभाषिकाणि ॥
1 स्वय-च.