________________
716
न्यायमञ्जरी इति स्वसिद्धान्तो हीयते । अथ सिद्धान्तो न त्यज्यते, तहि प्रकृतिविकारानिश्चयात् हेत्वसिद्धौ साध्याभावः प्रसज्यत इति ॥
[उक्ताप्रसिद्धान्तस्यादोषत्वाशङ्का ] अत्राह हेतुप्रयोगं कृतवति कपिले नैयायिकस्तदसिद्धतोद्भावनया प्रत्यवतिष्ठतां, प्रकृतिविकृतिस्वरूपप्रश्नस्य कोऽवसरः ? तदिदमर्थान्तरगमनमस्य भवेत् । एवं पृच्छतः अर्थान्तरगमनं स्वग्रन्थे निग्रहस्थान 'उच्यते, अथ च अधुना तेनैव व्यवहियत इति कोऽयं नयः ?
यदि तु सांख्यमतं निराचिकोषितं, तदसिद्धतैव हेतोरुद्भाव्यताम् , प्रकृत्यन्वयस्य विकारेषु असंभवादिति। विकारा हि प्रवृत्तिनिवृत्तिधर्मकाः । न चैवंप्रकारमव्यक्तम* , अव्यक्तधर्मान्वये हि विकाराणां प्रवृत्तिनिवृत्त्या. त्मकत्वं हीयतेत्येवमसिद्धत्वाद्धेतोः हेत्वाभासप्रयोगादेव सांख्यो निगृहीत इति न निग्रहस्थानान्तरमपसिद्धान्त इति ॥ . . .
[तस्य दोषत्वसमर्थनम् ] अत्रोच्यते-सत्यमसिद्धो भवत्वयं कापिलकल्पितो हेतुः। प्रकृति. 'वि'कृतिप्रश्नक्रमेणापि तदसिद्धत्वमवधारयितुं शक्यत एक। किन्तु हेतुरूपेऽवधारिते तद्दूषणमभिधानीयम् , अनवधारितस्य दूषयितुमशक्यत्वा. दिति तत्प्रश्नो नार्थान्तरगमनम्। प्रश्नोत्तरमेव भाषमाणः परामर्श निकटतरपरिस्फुरदपसिद्धान्ताभिधाननिबन्धननिग्रहान्तरविषयतां प्रतिपन्ने इति हेत्वाभासवर्त्मनि न दूरं गम्यते ॥
* प्रवृत्तिमात्रधर्मकं, तत् । तस्य कुत्रापि लयाभावात् ॥
* कथयां स्वपक्षमात्रसिद्धपारिभाषिकपदप्रयोगे हि जिज्ञासाऽनिवार्या । अत: नार्थान्तरं दोषः॥
1 लि ड्य -ख,
व्यापि च,
संख, घ, च.
तद्वि-ख.