SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ द्वादशमा ह्निकम् क्वचिदपि परनिग्रहस्य हेतौ हृदयपथं प्रथमं किलावतीर्णे । अपरमपि न कारणं विचिन्त्यं fara फलं खलु पिष्टपेषणस्य ॥ [ हेत्वाभासरूपनिग्रहस्थानम् ] हेत्वाभासाच यथोक्ताः ।। ५-२-२५॥ हेत्वाभासस्तु पूर्वोक्तलक्षणैरेव लक्षिताः । निग्रहस्थानतां यान्ति यथोक्ता इत्यतोऽब्रवीत् ॥ प्रमाणस्य प्रमेयत्वं प्रमेयस्य प्रमाणता । यथा लक्षणभेदेन न तथैतेषु दृश्यते ॥ * भेदेनोक्ताः किमर्थं त इति निगदिता पूर्वमेवात्र युक्तिः वादे प्रयोज्याः प्रगुणनयविदा तत्त्वशुद्धि विधातुम् । एतेषां धर्मकीर्तेरपि च न विमतिः निग्रहस्थानतायां इत्थं द्वाविंशतिर्नः गुरुभिरभिहिताः निग्रहस्थानभेदाः ॥ [ ग्रन्थोपसंहारः ] इत्येवं सूत्रकारागममनुसरताऽनुज्झता भाष्यभूमि स्थाने स्थाने परेषां मतमतुलगति क्षिण्वता तार्किकाणाम् । कांचिद्वाक्यार्थचर्चामपि विरचयताऽनुक्रमेणावतीर्णा निर्णीत :: स्वे निबन्धे निपुणमिह मया षोडशैते पदार्थाः ॥ 717 * किमर्थं पृथगन हेत्वाभासाः पुनरप्युक्ता इत्याक्षेपः । हेत्वाभासाना परिशीलनं वादेऽप्यावश्यकम् । जल्पे तु ते निग्रहहेतवो भवन्तीति द्विरूपत्वं हेवा - भासानामस्तीति न पौनरुक्त्यमिति समाधानम् ॥
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy