Book Title: Nyayamanjari Part 02
Author(s): K S Vardacharya
Publisher: Oriental Research Institute
________________
689
द्वादशमाह्निकम्
[ भाट्टोक्तोदाहरणम् ] भाट्टौस्तु *भवदीयं निरालम्बनसाधनं प्रतिज्ञाविरोधोदाहरणं वणितम् -'निरालम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वात्' इति। यतः प्रत्ययत्वहेतु ग्राहकज्ञानसालम्बनत्वे तेनै वैषा प्रतिज्ञा विरुद्धध्यते । तन्निरालम्बनत्वे तु हेत्वभाव एव स्यादिति। तदुक्तम्
'विस्पष्टश्चाक्षपादोक्तो विरोधो हेतुसाध्ययोः ।
यमदृष्टवा परैरुक्तमदूषणमिदं किल' इति ॥ तत् सर्वथा सुलभोदाहरणमिदं प्रतिज्ञाहेतुविरोधाख्यं निग्रहस्थानमिति स्थितिः ॥
[ प्रतिज्ञासंन्यासः] पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः ॥ ५-२-५ ।।
पक्षसाधने परेण दूषिते तदुद्धारणाशक्त्या प्रतिज्ञामेव निढ्वानस्य प्रतिज्ञासन्न्यासो नाम निग्रहस्थानं भवति ||
'अनित्यः शब्दः, ऐन्द्रियकत्वात्' इत्युक्ते, तथैव सामान्यनानकान्ति. कतायामुद्धा टितायां, यत् प्रतिब्रवीति—'क एवमाहानित्यः शब्द इति. -सोऽयमेवंब्रुवन् प्रतिज्ञासन्न्यासात् पराजीयते ॥
[प्रतिज्ञासंन्यासे धर्मकीक्षेिपः] .. अत्राह-अतिस्थूलः खल्वयं प्रमादः। को हि नाम प्रतिवादी प्राश्निकसन्निधाने प्रतिज्ञां कृत्वा, तदैव तेषामेवाभ्रष्टसंस्काराणां पुरतः अपस्मारकाद्यनुपप्लुतमतिः तामेव निह्नवीत ॥
* भवदीयम्-इत्यत्र भवच्छन्दः बौद्धपरः॥
1व-ख,
टुंकि-ख,
प्र-ख.
44
Page Navigation
1 ... 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794