Book Title: Nyayamanjari Part 02
Author(s): K S Vardacharya
Publisher: Oriental Research Institute

Previous | Next

Page 733
________________ 700 न्यायमञ्जरी कथात्मके वस्तुनिर्गयफले नेष्यत एव। जल्पेऽपि नियमा भ्युपगमेन वदतो वादिनः इदं निग्रहस्थानम्। यो हि न मया, आवाभ्यां वा साधनमधिकमभिधेयम् , उदाहरणं वेति नियम्योद्ग्राहयति, स एव तथा निगृह्यते, नान्य इति ॥ एतच्च कोतिनाऽप्येवमेव कथितम्-*'प्रपंचकथायां तु न दोषः, इति ॥ . __[ अस्य दोषस्वतदभावपक्षौ ] अपर आह-नियमाभ्युपामेऽपि नायं दोषः, प्रतिपतिढिम्ने तदभि धानादिति-तदयुक्तम्-अभ्युपगतनियमत्यागादसौ निग्रहा) भवेत् । कश्चायं प्रतिपत्तिद्रढिमा ? प्रथमप्रयुक्तस्य हि हेतोः 'मृदुप्रतिपत्तिका रिणः हेतुत्वमेव न स्यात् । उत्पन्नस्य प्रत्ययस्य पुनरुत्पादनं युक्तम् । 'तत्र न पूर्वहेतु रद्र ढिम्ने । नाप्युत्तरो द्रढिम्ने। तस्मानियमाभ्युपगमेऽ. धिकाभिधानं दोष एव ॥ अपरं मतम्-अकृतनियमस्यापि दोष एव। प्रपंचकथायामध्ये केन हेतुना दृष्टान्तेन वा कृते निर्णये द्वितीयस्य वैयर्थ्यात्। निर्णीतस्य निर्णयानुपपत्तेः । अनिर्णयकारिणश्च प्रथमस्य हेतोः प्रयोगानहत्वादिति ॥ [पुनरुक्तम् ] शब्दार्थयोः पुनरुच्चारणं पुनर्वचनमन्यत्रानुवादात् ॥ ५.२.१४ ॥ * पूर्वोक्तरीत्या नियमाद्यकरणेन प्रवृत्ता कथा प्रपंचकथा ॥ 1 -ख. . सा-ख, च, ' अदृढ-ख, तन्न-ख,

Loading...

Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794