Book Title: Nyayamanjari Part 02
Author(s): K S Vardacharya
Publisher: Oriental Research Institute

Previous | Next

Page 742
________________ 709 द्वादशमाह्निकम् [विक्षेपस्यादोषत्वाशङ्का ] अत्राह-यदि तावत् परमार्थत एव मातृमराणादिकार्यमस्योपस्थितं, तत् किमिति तपस्वी पराजीयते ? उद्ग्राहगि का जितो मा भूव मिति किमसौ मृतां मातरमपि मा धाक्षीदिति महत् सुभाषितमिति ॥ पीनसावरुद्धस्थानकरणो वा कथं वाचमदीरयत। अथासामर्थ्यस्थगनाय वितथमपि कथयति तथाविधमसौ कार्यव्यासङगम्, तहि सत्यं निगृह्यते । न तु विक्षेपेण, किन्तु अन्येनैव । वादी तावत् द्रुतकर्तव्यव्याजव्यपदेशात् अर्थान्तरगमनादिना निगृह्यते, प्रतिवादी त्वप्रतिभयैवेति । अतिप्रसङगश्चैवप्रकारणां निर्देशे भवेदिति ॥ - [उक्ताक्षेपसमाधानम् ] अत्रोच्यते-कथामुपक्रम्य, प्रतिज्ञा वा, हेतुमभिधाय तद्विवरणसरणि मिषम वलम्ब्य किचिदर्थान्तरमुपन्यस्यति, यत्, तत् अर्थान्तरमुदाहृतमादावेव। इह तु कथापूर्वरङगे कथायां वा किमपि करणीयनिभमभिधाय संभयमपसरति सदस इति कथमिव तत्तुल्यता भवति ? अप्रतिभयाऽपि श्रुतपूर्वपक्षः पराजीयते। इह तु पूर्वपक्षमेव न शृणोति वा न करोति वा। प्रथममेव पलायत इति महान विशेषः। अतिप्रसङगस्त्वसकृत्पराकृतः ॥ यत्त-हेत्वाभासेष्वन्तर्भावमस्य कोतिरकीर्तयत्-तदतीव सुभाषितम्-क्व हेत्वाभासः ! क्व कार्यव्यासङग :! संप्रधारणव रमणीये. यम्। 'अ हेतवौं हेतुवदवभासमानाः हेत्वाभासाः: किमस्य कार्य व्यासङगस्याहेतोहेतुबदाभासनं कोतिना दृष्टमिति परं नः कुत हलम् ॥ . * एतावदपि स कथं न ज्ञातवानिति ॥ 1 भूदि--ख, क-ख, ३ म-च, अ-ख. .

Loading...

Page Navigation
1 ... 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794