Book Title: Nyayamanjari Part 02
Author(s): K S Vardacharya
Publisher: Oriental Research Institute
________________
710
[ मतानुज्ञा ]
स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसंगो मतानुज्ञा
।। ५.२.२२ ।।
स्वदक्षे परापादितदोष मनुद्धृत्य --अभ्युपगम्य * ' तमेव परपक्षे 'प्रतीप' मापादयतः परमतानुज्ञानात् मतानुज्ञा नाम निग्रहस्थानं भवति । यथा चौरो भवान्, पुरुषत्वात्, प्रसिद्धचौरवत्' इत्युक्ते सति आह 'भवानपि चौर: पुरुषत्वात्' इति । सोऽयमेवं वदन् आत्मनः परापादितं दोषमभ्युपगतवानिति मतानुज्ञया निगृह्यते ॥
[ मतानुज्ञाया दोषत्वशंका समाधानं च ]
अत्राह - अनैकान्तिके हेतौ परेणोक्ते तदुद्भावनमनेन प्रकारेण प्रतिवादी करोति - इति 'किमिति' निगृह्यते । वाद्येव हेत्वाभासप्रयोनिगृह्यत इति ॥
अत्रोच्यते — उक्तमादावेव 'स्वपक्षे दोषमनुद्धृत्येति । एवं हि तेन वक्तव्यम् - 'अनैकान्तिकोऽयं हेतुः, अचौरेऽपि पुरुषत्वस्य दर्शनादिति । एवं हि स दोष उद्धृतो भवति । एवं त्वनभिधाय - 'भवानपि चोरः, पुरुषत्वात्' इति वंदन् अनुजानात्येव परमतम् । अतोऽनैकान्तिकत्वे वक्तव्ये, तदुद्भावनानुक्रममवधीर्य 'अतिप्रसङगमापादयन् निग्रहार्हो भवत्येवेति । वादिनश्चानैकान्तिक हेतु प्रयोगेऽपि तदनुद्भावनान्नपराजयः । प्रतिवादिन एव हीदं सन्निकृष्टं निग्रहस्थानमिति ॥
* अनेन प्रतिबन्दीतो वैलक्षण्यम् । गन्तव्यम्' इति प्रदर्शनं प्रतिबन्दी ॥
1 प-ख,
तमेव-ख,
न्यायमञ्जरी
3
'नायं दोषः, यतस्त्वयाऽपि तथाऽभ्युप
न-च,
4
प्र-ख.
Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794