SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ 710 [ मतानुज्ञा ] स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसंगो मतानुज्ञा ।। ५.२.२२ ।। स्वदक्षे परापादितदोष मनुद्धृत्य --अभ्युपगम्य * ' तमेव परपक्षे 'प्रतीप' मापादयतः परमतानुज्ञानात् मतानुज्ञा नाम निग्रहस्थानं भवति । यथा चौरो भवान्, पुरुषत्वात्, प्रसिद्धचौरवत्' इत्युक्ते सति आह 'भवानपि चौर: पुरुषत्वात्' इति । सोऽयमेवं वदन् आत्मनः परापादितं दोषमभ्युपगतवानिति मतानुज्ञया निगृह्यते ॥ [ मतानुज्ञाया दोषत्वशंका समाधानं च ] अत्राह - अनैकान्तिके हेतौ परेणोक्ते तदुद्भावनमनेन प्रकारेण प्रतिवादी करोति - इति 'किमिति' निगृह्यते । वाद्येव हेत्वाभासप्रयोनिगृह्यत इति ॥ अत्रोच्यते — उक्तमादावेव 'स्वपक्षे दोषमनुद्धृत्येति । एवं हि तेन वक्तव्यम् - 'अनैकान्तिकोऽयं हेतुः, अचौरेऽपि पुरुषत्वस्य दर्शनादिति । एवं हि स दोष उद्धृतो भवति । एवं त्वनभिधाय - 'भवानपि चोरः, पुरुषत्वात्' इति वंदन् अनुजानात्येव परमतम् । अतोऽनैकान्तिकत्वे वक्तव्ये, तदुद्भावनानुक्रममवधीर्य 'अतिप्रसङगमापादयन् निग्रहार्हो भवत्येवेति । वादिनश्चानैकान्तिक हेतु प्रयोगेऽपि तदनुद्भावनान्नपराजयः । प्रतिवादिन एव हीदं सन्निकृष्टं निग्रहस्थानमिति ॥ * अनेन प्रतिबन्दीतो वैलक्षण्यम् । गन्तव्यम्' इति प्रदर्शनं प्रतिबन्दी ॥ 1 प-ख, तमेव-ख, न्यायमञ्जरी 3 'नायं दोषः, यतस्त्वयाऽपि तथाऽभ्युप न-च, 4 प्र-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy