________________
711
द्वादशमाह्निकम्
[पर्यनुयोज्योपेक्षणम् ] निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥ ५.२.२२ ॥
पर्यनुयोज्यो नाम निग्रहोपपत्या चोदनीयः 'इदं ते-निग्रहस्थानमुपनतम्, अतो निगृहीतोऽसि' इत्येवं वचनीयः। तं य उपेक्षते-नानुयुङक्ते, स पर्यनुयोज्योपेक्षणान्निगृह्यते ॥
[ धर्मकी.क्षेप! ] अत्राह-कः कस्येदं निग्रहस्थानमापादयति–कि पर्यनुयोज्यः, उत तदुपेक्षकः ? उपेक्षकस्तावदस्य पर्यनुयोज्यतामेव न जानाति । जानन्वा कथमेनमुपेक्षेत।-उपेक्ष्य वा किमात्मन एव निग्रहस्थानमुद्भावयन्नेवमाचष्टां 'एष पर्यनुयोज्योऽपि मयोपेक्षित इति निगृहीतोऽस्मि' इति । पर्यनयोज्योऽपि कथमात्मीयमवयं प्रकाशयेत्-इदं मे* दूषणम् । तच्च भवता नोद्भावितम्। अतो भवान् जित.' इति । स खल्वेवमभिदधत् अमेध्यं पाणौ निधाय परं कलङकयितुकामः परं कलंङकयन्नेवात्मकलङकमनुभवत्येवेति ॥ ... अपि च नेदं निग्रहस्थानान्तरमपदिश्यते किन्त्वप्रतिभवेति। तथा हि-यदि तावदुत्तरपाक्षिकः पूर्वपाक्षिकं साधनाभासमव्याचक्षाणं उपे. क्षेत-तत्र दूषणं नोद्भावयेत् । तदुत्तराप्रतिपत्त्या न निगृह्यते, न पर्यनुयोज्योपेक्षणेन ॥
वस्तुतस्तु द्वयोरपि तत्र जयपराजयनिर्धारणमनुपपन्नम् , एकस्य साधनाभासवादित्वात्, इतरस्य च तदुत्तराप्रतिभानात् ॥
___ * मे–मयि, मत्पक्ष इति यावत् ॥
। प्या-ख,
दू-ख,