________________
712
न्यायमञ्जरी अथ पूर्वपाक्षिकः दूषणाभासवादिनं दोषप्राप्तं उत्तरपाक्षिकं न निगृ. ह्णाति-तथापि तस्य दुरुत्तराप्रतिभव। न चान्यतरस्यापि जयः पराजयो वा निर्धार्यते। एकस्य दू'षणाभासवादित्वात् , इतरस्य च तदनु द्भावनात् ॥
__ [उक्ताक्षेपसमाधानम् ] अत्रोच्यते-न-अप्रतिभायाः सम्यक्साधनविषयत्वात्। सम्यक्साधने च प्रयुक्ते तदुत्तरस्याप्रतिपत्तिः अप्रतिभा भवति। साधनाभासे तु प्रयुक्ते तदाभासतानुभावनात् पर्यनयोज्योपेक्षणं भवति। अत्र तु साधनाभासवादी पर्यनुयोज्यः। स उपेक्षितः। तत्र सम्यक्साधनवादी तु अपर्यनुयोज्य एवेति विशेषः॥
यत्तु वस्तुवृत्तेन न कस्यचिदपि जयः पराजयो* वेति-तदेवमेव किन्तु जल्पे पुरुषशक्तिपरीक्षायामिदं निग्रहस्थानमुच्यते ॥
तदुद्धावयितापि यद्विकल्पितः-तत्राप्युच्यते-पूर्वपाक्षिकेण साधना भासे प्रयुक्ते, उत्तरपाक्षिकेण तस्मिस्तथात्वेनानुद्भाविते, प्राश्निकानाम. पृष्टानां वक्तुमवसराभावात्स एव साधनाभासवादी कदाचिद्वयात्यादेवं ब्रूयात्-'मयाऽस्य शक्ति जिज्ञासमानेन साधनाभासप्रयोगः कृतः, एष तु मूर्खः तं न जानाति' इति, तदा कथं न निगृह्यते। एतेन दूषणाभास. वाद्यपि व्याख्यातः॥
अथवा उभयाभ्यथिताः 'सभापति नियुक्ता वा प्राश्निकाः तथा 'कथ' यन्तो निगृह्णन्त्येव पर्यनुयोज्योपेक्षिणम्। साधनाभासवादिनो हि धूर्त.
* कस्यापि पक्षस्याप्रतिष्ठापनात्। ततश्च जयः विषयदृष्टया ॥
1 हू-ख,
ए-ख
३ संभवन्ति-च,
कि-ख