________________
709
द्वादशमाह्निकम्
[विक्षेपस्यादोषत्वाशङ्का ] अत्राह-यदि तावत् परमार्थत एव मातृमराणादिकार्यमस्योपस्थितं, तत् किमिति तपस्वी पराजीयते ? उद्ग्राहगि का जितो मा भूव मिति किमसौ मृतां मातरमपि मा धाक्षीदिति महत् सुभाषितमिति ॥
पीनसावरुद्धस्थानकरणो वा कथं वाचमदीरयत। अथासामर्थ्यस्थगनाय वितथमपि कथयति तथाविधमसौ कार्यव्यासङगम्, तहि सत्यं निगृह्यते । न तु विक्षेपेण, किन्तु अन्येनैव । वादी तावत् द्रुतकर्तव्यव्याजव्यपदेशात् अर्थान्तरगमनादिना निगृह्यते, प्रतिवादी त्वप्रतिभयैवेति । अतिप्रसङगश्चैवप्रकारणां निर्देशे भवेदिति ॥
- [उक्ताक्षेपसमाधानम् ] अत्रोच्यते-कथामुपक्रम्य, प्रतिज्ञा वा, हेतुमभिधाय तद्विवरणसरणि मिषम वलम्ब्य किचिदर्थान्तरमुपन्यस्यति, यत्, तत् अर्थान्तरमुदाहृतमादावेव। इह तु कथापूर्वरङगे कथायां वा किमपि करणीयनिभमभिधाय संभयमपसरति सदस इति कथमिव तत्तुल्यता भवति ?
अप्रतिभयाऽपि श्रुतपूर्वपक्षः पराजीयते। इह तु पूर्वपक्षमेव न शृणोति वा न करोति वा। प्रथममेव पलायत इति महान विशेषः। अतिप्रसङगस्त्वसकृत्पराकृतः ॥
यत्त-हेत्वाभासेष्वन्तर्भावमस्य कोतिरकीर्तयत्-तदतीव सुभाषितम्-क्व हेत्वाभासः ! क्व कार्यव्यासङग :! संप्रधारणव रमणीये. यम्। 'अ हेतवौं हेतुवदवभासमानाः हेत्वाभासाः: किमस्य कार्य व्यासङगस्याहेतोहेतुबदाभासनं कोतिना दृष्टमिति परं नः कुत हलम् ॥
.
* एतावदपि स कथं न ज्ञातवानिति ॥
1 भूदि--ख,
क-ख,
३ म-च,
अ-ख. .