SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ 708 हृत्पुण्डरीकविकसत्सकलानवद्य विद्यावदातवदनः क्व जनोऽस्मदादिः । क्वायं वटुः ? कतिपयाक्षर लेश लिप्तजिह्वान्वितः कथमनेन सहाभिदध्मः ॥ दानागन्धगजकुम्भकपाट भेदि भीमस्फुरन्नखशिखा शिखरः क्व सिंहः । क्वामी समीरण विधुतपुराणपर्ण* पातोद्भवद्भयविलोलदृशः कुरङगाः ॥ इत्यादि यद्वा तद्वा प्रलपन्नास्ते ॥ [ विक्षेप: ] कार्यव्यासंगात्कथाविच्छेदो विक्षेपः ॥ ५.२.२० ॥ उद्ग्राहणिकामुपक्रम्य वा तद्ग्राहयितव्यं मयेति प्रतिश्रत्य वाऽभिमुखं प्रतिवादिनि सन्निहितेषु प्राश्निकेषु कार्यव्यासङ्गं व्यपदिशति 'इदं मे करणीयमपहीयते, गच्छामि' इत्यभिधाय कथां विच्छिनत्ति यः स विक्षेपेण पराजीयते । अन्यतरनिग्रहान्ता हि कथा भवति । सत्थं कथां कुर्वन् - आत्मनैवात्मानं निगृह्णाति । ' प्रतिश्यायेन मे कण्ठोपरोधः उदपादि, पदमपि वक्तुं न युज्यते' । 'जननी मे जीवितं जहाति स्म, तां श्मशानभुवं प्रापय्य वह्निसात्करोमि इति ॥ * पुराणपर्णपातः - पुराणपर्णपातजन्यशब्दः ॥ + प्राय इति शेषः । कदाचित् जयपराजय निर्णयो न भवेदपि ॥ न्यायमञ्जरी कायां-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy