Book Title: Nyayamanjari Part 02
Author(s): K S Vardacharya
Publisher: Oriental Research Institute
________________
708
हृत्पुण्डरीकविकसत्सकलानवद्य
विद्यावदातवदनः क्व जनोऽस्मदादिः । क्वायं वटुः ? कतिपयाक्षर लेश लिप्तजिह्वान्वितः कथमनेन सहाभिदध्मः ॥
दानागन्धगजकुम्भकपाट भेदि
भीमस्फुरन्नखशिखा शिखरः क्व सिंहः । क्वामी समीरण विधुतपुराणपर्ण* पातोद्भवद्भयविलोलदृशः कुरङगाः ॥
इत्यादि यद्वा तद्वा प्रलपन्नास्ते ॥
[ विक्षेप: ] कार्यव्यासंगात्कथाविच्छेदो विक्षेपः ॥ ५.२.२० ॥
उद्ग्राहणिकामुपक्रम्य वा तद्ग्राहयितव्यं मयेति प्रतिश्रत्य वाऽभिमुखं प्रतिवादिनि सन्निहितेषु प्राश्निकेषु कार्यव्यासङ्गं व्यपदिशति 'इदं मे करणीयमपहीयते, गच्छामि' इत्यभिधाय कथां विच्छिनत्ति यः स विक्षेपेण पराजीयते । अन्यतरनिग्रहान्ता हि कथा भवति । सत्थं कथां कुर्वन् - आत्मनैवात्मानं निगृह्णाति । ' प्रतिश्यायेन मे कण्ठोपरोधः उदपादि, पदमपि वक्तुं न युज्यते' । 'जननी मे जीवितं जहाति स्म, तां श्मशानभुवं प्रापय्य वह्निसात्करोमि इति ॥
* पुराणपर्णपातः - पुराणपर्णपातजन्यशब्दः ॥
+ प्राय इति शेषः । कदाचित् जयपराजय निर्णयो न भवेदपि ॥
न्यायमञ्जरी
कायां-च.
Page Navigation
1 ... 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794