Book Title: Nyayamanjari Part 02
Author(s): K S Vardacharya
Publisher: Oriental Research Institute
________________
द्वादशमाद्दिकम्
ननु ! यद्यज्ञानसाम्येऽपि विषयभेदमाश्रित्य निग्रहस्थाननानात्वमित्यभिधीयते, तर्ह्यज्ञानप्रकारवैचित्र्यात् भेदान्तराण्यपि वक्तव्यानीति - उक्तमत्र सारसंग्रहविवक्षया द्वे एव निग्रहस्थाने - विप्रतिपत्तिः अप्रतिपत्तिश्चेति । इतरेतरविसदृशोदाहरण दिक्प्रदर्शनाय द्वाविंशतिभेदत्वमुच्यते । 'अवान्तर विशेषस्तु तदानन्त्यमभ्युपगम्यत एव । तथा च द्वाविंशतिवर्गे 'हेत्वाभासाश्र्व' इति पठितम् । ते च स्वरूपेणैव तावत्पंच- 'सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासा' इति । अवान्तरभेदाश्च* तेषामतिबहवः सन्त्येव । इह त्वेकमेव तन्निग्रहस्थानमादिष्टं 'हेत्वाभासाच यथोक्ताः' इति । तस्मादित्थं समासव्यासवर्णनात् अलं पदे पदे पर्यनुयोगेनेति ॥
[ अप्रतिभा ]
उत्तरस्याप्रतिपत्तिरप्रतिभा ॥ ५.२.१९ ॥
परपक्षे गृहोतेऽपि तस्मिन्नुत्तराप्रतिमानमप्रतिभा नाम प्रतिवादिनो निग्रहस्थानं भवति । अज्ञानादिभ्यो भिन्नताऽस्य 'दशि' तैव । रपि चैतदनुमन्यत एव निग्रहस्थानम् ॥
कीर्ति
सदसि प्रतिवादी कथमासीत ?
ननु ! उत्तरमप्रतिपद्यमानः यत्किचिद्विकत्थमानः । तद्यथा
* असिद्धिविशेषा बहवः ॥ + वस्तुतस्त्विमपि अर्थान्तरमेव । मध्यस्थैर्घोषणीया ॥
1
707
वर्ण - ख.
किन्तु स्वेदसंरंभ भूनिरीक्षणादावप्रतिभा
Page Navigation
1 ... 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794