Book Title: Nyayamanjari Part 02
Author(s): K S Vardacharya
Publisher: Oriental Research Institute

Previous | Next

Page 738
________________ द्वादशंमाह्निकम् 705 वाक्योच्चारणमक्षत एव धर्मः! * प्राश्निकान् यथा तथा सङकेतेनापि बोधयित्वा दुःश्लिष्टकष्टशब्दप्रयोगाद्याडम्बरविरचनयापि आन्ध्यमुत्पाद्य परानुपरुध्यतेति महत् कश्मलमेतत्। न चेदृशं शास्त्रे व्युत्पादनाहम् । तस्मात् बहुकृत्वोऽप्यभिधाय प्रतिवादी बोधयितव्यः। न तु द्विरुच्चारितमप्रत्युच्चरन् निगृहीतव्य इति ॥ [उक्ताक्षेपसमाधानम् ] अनोच्यते-न खलु सकृदेव सकलपरविरचितवचनसंदर्भानुभाषण. मविलम्बितक्रमकमस्माभिरपि कर्तव्यतयोपदिष्टम्। अपि तु यथोचितदूषणविषयानुभाषणमात्रमेव ॥. ____यस्तु स्तोकमप्यनुभाषितुमप्रगल्भः, तस्योत्तरप्रतिभानमपि नास्तीति यदुच्यते- तदसम्यक - अन्यदननुभाषणम् , अन्यदुत्तराप्रतिभानम् । कस्यचिदशेषमनुभाषितवतोऽपि 'उत्तराप्रतिभानदर्शनात् । तदिदं अनुतरविषयानुद्धोषणं निग्रहस्थान मुच्यते, नोत्तराप्रतिभानम् । उत्तरा. प्रतिभानमनन्तरं वक्ष्यते ॥ यत्तु त्रिरुच्चारणपरिभाषा कुतस्त्येति विकल्पितम्-तदविज्ञातार्थ. नाम्नि निग्रहस्थाने प्रतिविहितम्। वीतरागकथात्मके वादे शिष्टादि. भिस्सह क्रियमाणे काममस्तु परावबोधावधि वाक्योच्चारणम् । जल्पे तु विजिगीषुकथायां पुरुषशक्तिपरीक्षणात् अवश्यमुच्चारणनियम आश्रय. * उपहासवचनमिदम् ॥ + वाद्युक्तस्य ज्ञानमन्यत् , तस्योत्तरदानं चान्यत् ॥ * वायुक्तेषु यावतः अंशस्योत्तरं देयम् , तावदंशस्य सदसि सर्वेषां परिज्ञानायोद्धोषणमकुर्वतः अननुभाषणं दोषः॥ _1 चलि-ख, न-ख. 45

Loading...

Page Navigation
1 ... 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794