________________
द्वादशंमाह्निकम्
705 वाक्योच्चारणमक्षत एव धर्मः! * प्राश्निकान् यथा तथा सङकेतेनापि बोधयित्वा दुःश्लिष्टकष्टशब्दप्रयोगाद्याडम्बरविरचनयापि आन्ध्यमुत्पाद्य परानुपरुध्यतेति महत् कश्मलमेतत्। न चेदृशं शास्त्रे व्युत्पादनाहम् । तस्मात् बहुकृत्वोऽप्यभिधाय प्रतिवादी बोधयितव्यः। न तु द्विरुच्चारितमप्रत्युच्चरन् निगृहीतव्य इति ॥
[उक्ताक्षेपसमाधानम् ] अनोच्यते-न खलु सकृदेव सकलपरविरचितवचनसंदर्भानुभाषण. मविलम्बितक्रमकमस्माभिरपि कर्तव्यतयोपदिष्टम्। अपि तु यथोचितदूषणविषयानुभाषणमात्रमेव ॥. ____यस्तु स्तोकमप्यनुभाषितुमप्रगल्भः, तस्योत्तरप्रतिभानमपि नास्तीति यदुच्यते- तदसम्यक - अन्यदननुभाषणम् , अन्यदुत्तराप्रतिभानम् । कस्यचिदशेषमनुभाषितवतोऽपि 'उत्तराप्रतिभानदर्शनात् । तदिदं अनुतरविषयानुद्धोषणं निग्रहस्थान मुच्यते, नोत्तराप्रतिभानम् । उत्तरा. प्रतिभानमनन्तरं वक्ष्यते ॥
यत्तु त्रिरुच्चारणपरिभाषा कुतस्त्येति विकल्पितम्-तदविज्ञातार्थ. नाम्नि निग्रहस्थाने प्रतिविहितम्। वीतरागकथात्मके वादे शिष्टादि. भिस्सह क्रियमाणे काममस्तु परावबोधावधि वाक्योच्चारणम् । जल्पे तु विजिगीषुकथायां पुरुषशक्तिपरीक्षणात् अवश्यमुच्चारणनियम आश्रय.
* उपहासवचनमिदम् ॥ + वाद्युक्तस्य ज्ञानमन्यत् , तस्योत्तरदानं चान्यत् ॥
* वायुक्तेषु यावतः अंशस्योत्तरं देयम् , तावदंशस्य सदसि सर्वेषां परिज्ञानायोद्धोषणमकुर्वतः अननुभाषणं दोषः॥
_1 चलि-ख,
न-ख.
45