________________
706
न्यायमञ्जरी
णीयः। तत्र सकृद्वा द्विर्वाऽभिहितस्याग्रहणमनवधानादिनापि संभवन न निग्रहाय कल्पते। त्रिरभिहितस्य तु *सर्वैरग्रहणे वक्तुरेवापराधः । अन्यैर्गृहीतस्य प्रतिवादिना त्वग्रहणे तस्य निग्रहः। वारत्रयादूर्ध्वमप्यभि. धाने त्वाश्रीयमाणे जल्पादौ कथासमाप्तिरेव न स्यात् । छात्रशाला ह्यसौ भवेत् , नोद्ग्रा हिणि काभूमिरि ति ॥
[ अज्ञानम्
अविज्ञानं चाज्ञानम् ॥ ५.२.१.८ ॥ परिषदा विज्ञातस्यापि वादिवाक्यस्य प्रतिवादिना यदविज्ञानं, तत, अज्ञानं नाम निग्रहस्थानं भवति। अविदितोत्तरविषयो हि क्वोत्तरं बयादिति ॥
'अज्ञानम्' 'अप्रतिभा' इति नानयोविशेषं पश्यामः-अत्रोच्यतेभिन्नविषयत्वाददोषः। उत्तरविषयाप्रतिपत्तिः अज्ञानम्, उत्तराप्रति पत्तिस्त्वप्रतिभेति ॥
ननु ! उत्तरविर्य यो न जानाति, स उत्तरमपि न जानात्येवमैवम्-उत्तरविषयं जानन्नपि किंचित उत्तरं न जानातीति लोकदृष्टमेतत् । एवं तहि अननुभाषणेन गतार्थमज्ञानम् । अज्ञाते हि परकीये पाक्यार्थे तदनभाषणे सामर्थ्याभावदर्शनात्-सन्ति.हि केचित् , येऽनुभाषितमशक्नुवन्तः, पत्रिकादिलिखितं तदावेदयन्तीति । एवं त्रयाणामपि च न पौनरु. क्त्यम्। उत्तरविषयाप्रतिपत्तिः अज्ञानम् । प्रतिपत्तावपि तदप्रत्युच्चारगं अननुभाषणम् । अनुभाषितेऽप्युत्तराप्रतिपत्तिः अप्रतिभेति ॥
* सर्वः-मध्यस्थैः, सदस्यैश्च ॥
1 के तदि-ख.
. ज्ञानेऽपि-च.