Book Title: Nyayamanjari Part 02
Author(s): K S Vardacharya
Publisher: Oriental Research Institute

Previous | Next

Page 736
________________ 703 द्वादशमाहिक स शब्दपुनरुक्तेनापि निगृह्यत इति नियम्यवादिन एव निग्रहात्। ततः अन्यस्य सम्यगश्रवणशङकया पुनर्वदतोऽपि न दोषः। अर्थाक्षिप्तकथन. मपि कृतनियमस्यैव दोषः, नान्यस्येति ॥ अत एव वादे न निग्रहस्थ नमिदम् , अपि तु जल्पवितण्डयोरेव विजिगीषुकथयोः। *तयोश्च सप्रयोजनत्वम्, कथान्तरत्वं च पुरा समथितमेव ॥ यत्तु प्रतिज्ञोच्चारणमाक्षिप्तत्वात , तदनुवादश्च निगमनवचनमफ'लतर मिति–तदवयवलक्षणे विस्तरेण समाहितम् ॥ अधिकपुनरुवतयोस्त्वयं विस्पष्ट एवं विशेषः। अन्यं हेतुम्, अन्यं वा दृष्टान्तं तत्रैव साध्येऽभिदधदधिकवादी भवति, तमेव हेतुं दृष्टान्तं वा पुनर्वदन् पुनरुक्तवादीति ॥ . यत्तु-एवंविधविशेषाश्रयणे परिगणनमधटमानमिति-तत् अवान्त. रविशेषविवक्ष येवमेव । असङकीर्णोदाहरणप्रदर्शनाय तु द्वाविंशतिनिर्देशइत्युक्तम् ॥ [ अननुभाषणम् ] : विज्ञातस्य पर्षदा त्रिरभिहितस्याप्यनुच्चारणमननुभाषणम् ॥५.२.१७ ॥ पर्षदा विदितस्य वादिना त्रिरुच्चारितस्यापि यदप्रत्यच्चारणं-तत् 'अननुभाषणं नाम निग्रहस्थानं भवति। अप्रत्युच्चारयन् किमा स्पदं दूषणमभिदधीत ॥ * तयोः-जल्पविनण्डयोः ॥ .. ल-खः व-ख, श्रयं-खे.

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794