________________
703
द्वादशमाहिक स शब्दपुनरुक्तेनापि निगृह्यत इति नियम्यवादिन एव निग्रहात्। ततः अन्यस्य सम्यगश्रवणशङकया पुनर्वदतोऽपि न दोषः। अर्थाक्षिप्तकथन. मपि कृतनियमस्यैव दोषः, नान्यस्येति ॥
अत एव वादे न निग्रहस्थ नमिदम् , अपि तु जल्पवितण्डयोरेव विजिगीषुकथयोः। *तयोश्च सप्रयोजनत्वम्, कथान्तरत्वं च पुरा समथितमेव ॥
यत्तु प्रतिज्ञोच्चारणमाक्षिप्तत्वात , तदनुवादश्च निगमनवचनमफ'लतर मिति–तदवयवलक्षणे विस्तरेण समाहितम् ॥
अधिकपुनरुवतयोस्त्वयं विस्पष्ट एवं विशेषः। अन्यं हेतुम्, अन्यं वा दृष्टान्तं तत्रैव साध्येऽभिदधदधिकवादी भवति, तमेव हेतुं दृष्टान्तं वा पुनर्वदन् पुनरुक्तवादीति ॥
. यत्तु-एवंविधविशेषाश्रयणे परिगणनमधटमानमिति-तत् अवान्त. रविशेषविवक्ष येवमेव । असङकीर्णोदाहरणप्रदर्शनाय तु द्वाविंशतिनिर्देशइत्युक्तम् ॥
[ अननुभाषणम् ] : विज्ञातस्य पर्षदा त्रिरभिहितस्याप्यनुच्चारणमननुभाषणम्
॥५.२.१७ ॥ पर्षदा विदितस्य वादिना त्रिरुच्चारितस्यापि यदप्रत्यच्चारणं-तत् 'अननुभाषणं नाम निग्रहस्थानं भवति। अप्रत्युच्चारयन् किमा स्पदं दूषणमभिदधीत ॥
* तयोः-जल्पविनण्डयोः ॥
.. ल-खः
व-ख,
श्रयं-खे.