________________
702
न्यायमञ्जरी
. [शब्दपौनरुत्यस्य दोषत्वाशङ्का ]
अत्राह - नार्थपुनरुत्तादन्यच्छब्दपुनरुक्तमुपपद्यते, शब्दसाम्येऽ. प्यर्थभेददर्शनात् ।* स्मरत गिरिशं गिरि शो "नगरी यस्यासमर. द्वेषस्य क इव यदीयस्य मुदा न गरीयस्या समस्मरद्वेषस्य' इति । तस्मादत एव पौनरुक्त्यं, न शब्दतः॥
। अपि च विस्तरकथासु कदाचन सम्धाश्रवणशङकायां पुनरभिधानं नाम कियान् प्रमादः ? अर्थादापन्नस्य च स्वाशब्देन पुनर्वचनं यदि निग्रहस्थानमुच्यते, तहि प्रतिज्ञावचनमेव प्रथमं निग्रहस्थानम् ॥
अधिकपुनरुक्तयोर्वा को विशेष इति वक्तव्यम्। यादृशं तादृशं च विशेषलेशमाश्रित्य पृथगभिधाने निग्रहस्थानभेदपरिगणनमशक्यक्रिय स्यात् ॥ ___ अनुवादश्वेदुच्यते-हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनमितितत्र प्रतिज्ञैव तावदसाध्वी। तस्याः पुनर्ववतं साधु भविष्यतीति केयं कथा || .
[तेषां दोषत्वसमर्थनम् ] अत्रोच्यते-यदुक्तमर्थपुनरुकाादन्यन्न शब्दपुनरुक्तमिति-तदेवमेव । पृथङनिर्देशस्त्वनया विवक्षया-यो हि शक्त्यतिशयविख्यापयिषया 'सकृत्प्र. "युक्तः शब्दः पुनर्मया न प्रयोक्तव्यः' इति प्रतिज्ञाय जल्पं प्रवर्तयति,
* गिरिशं-ईश्वरं स्मरत । असपस्मरद्वेषस्य-असाधारणकामरियोः यस्य गिरिशः-हिमवान् , नगरी वासभूमिः। क:-चतुर्मुखः गरीयस्या मुदेन यदीयस्य वेषस्य समस्नरत् । 'अधीग त्यादिना षठी ॥
। प्रतिज्ञाया अपि अर्थात् ज्ञातुं शक्यत्वात् ।
1 री-च,
2 गौ-ख,
ई-ख,
प्र-स.