________________
द्वादेशमाहिम
701 अर्थादापन्नस्य स्व'कण्ठे'न पुनर्वचनम् , शब्दस्य ! वाऽर्थस्य वाऽभि. हितस्य पुनरभिधानं पुनरुक्तं नाम निग्रहस्थानं भवति, अनुवाद वर्जयित्वा ॥
शब्दपुनरुक्तं तावत् यत्र पूर्वोच्चारित एव शब्दः पुनररचार्यते-यथा -'नित्यः शब्दः, नित्य शब्दः' इति ।।
अर्थपुनरुक्तं तु-यत्र सोऽर्थः पूर्वमन्येन शब्दैनोवतः पर्यायान्तरेण पुनरुच्यते । यथा 'अनित्यः शरदः, निरोधधर्मको ध्वानः' इति ॥
यद्यपि च शब्दपुनरुक्तेऽध्यर्थपौनरुक्त्यमस्त्येव ; तथापि शब्दपूर्व. कत्वादर्थप्रत्यभिज्ञायाः प्रथमतरं शब्दप्रत्यभिज्ञानात् तत्पौनरुक्त्यमेव तदु. च्यते। *जात्यपेक्षश्च शब्दपौ नरुवत्यव्यवहारः, न व्यक्त्यपेक्षः; क्षण भङगित्वाद्वर्णानां पुनः प्रयोगासंभवात् ॥
अनुवादे तु पौनरुक्त्यमदोषः। यथा--'हेत्वपदेशात् प्रतिज्ञायाः पुन वचनं निगमनम्' इति ॥ ____ अर्थादापन्नस्यापि स्वशब्देन पुनर्वचनं भवत्येव पुनरुवतम्। यथा 'असत्सु मेघेषु वृष्टिर्न भवति' इत्युक्ते उदापद्यते 'सत्सु भवति' इति । तत् किमर्थं स्वकण्ठेन पुनरुच्यते। अर्थप्रतीत्यर्थो हि शब्दप्रयोगः । प्रतीतेऽर्थे कि तेनेति ॥
- एतच्च नियमाभ्युपगमे निग्रहस्थानं वेदितव्यम् । अकृतनियमस्थ तु नातीव महानयमपराधः ॥
* जातिः-अरव-कस्वादिः॥ + क्षण:-द्विक्षणम् । एकक्षणमात्रवर्तिनः अभावात् ॥
1 शब्दे-ख,
पौ-च.