________________
700
न्यायमञ्जरी कथात्मके वस्तुनिर्गयफले नेष्यत एव। जल्पेऽपि नियमा भ्युपगमेन वदतो वादिनः इदं निग्रहस्थानम्। यो हि न मया, आवाभ्यां वा साधनमधिकमभिधेयम् , उदाहरणं वेति नियम्योद्ग्राहयति, स एव तथा निगृह्यते, नान्य इति ॥
एतच्च कोतिनाऽप्येवमेव कथितम्-*'प्रपंचकथायां तु न दोषः, इति ॥ .
__[ अस्य दोषस्वतदभावपक्षौ ] अपर आह-नियमाभ्युपामेऽपि नायं दोषः, प्रतिपतिढिम्ने तदभि धानादिति-तदयुक्तम्-अभ्युपगतनियमत्यागादसौ निग्रहा) भवेत् । कश्चायं प्रतिपत्तिद्रढिमा ? प्रथमप्रयुक्तस्य हि हेतोः 'मृदुप्रतिपत्तिका रिणः हेतुत्वमेव न स्यात् । उत्पन्नस्य प्रत्ययस्य पुनरुत्पादनं युक्तम् । 'तत्र न पूर्वहेतु रद्र ढिम्ने । नाप्युत्तरो द्रढिम्ने। तस्मानियमाभ्युपगमेऽ. धिकाभिधानं दोष एव ॥
अपरं मतम्-अकृतनियमस्यापि दोष एव। प्रपंचकथायामध्ये केन हेतुना दृष्टान्तेन वा कृते निर्णये द्वितीयस्य वैयर्थ्यात्। निर्णीतस्य निर्णयानुपपत्तेः । अनिर्णयकारिणश्च प्रथमस्य हेतोः प्रयोगानहत्वादिति ॥
[पुनरुक्तम् ] शब्दार्थयोः पुनरुच्चारणं पुनर्वचनमन्यत्रानुवादात्
॥ ५.२.१४ ॥
* पूर्वोक्तरीत्या नियमाद्यकरणेन प्रवृत्ता कथा प्रपंचकथा ॥
1
-ख.
. सा-ख, च,
' अदृढ-ख,
तन्न-ख,