________________
द्वादशमाह्निकम
699 निर्णीतमेतत् । असाधनाङगत्वचनत्वमपि, प्रतिज्ञ द्यवयवानां तत्रैव निरस्तम् । अतः क्रमस्येह युक्तियुक्तत्वात्तदतिक्रमो भवत्येव निग्रहस्थानम् ॥
[न्यूनम् ] . . हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥ ५.२.१२ ॥
पंचावयवे वाक्ये प्रयोक्तव्ये स्थिते, तदन्यतमेनाप्यवय बेन हीनं प्रयु. जानस्य न्यूनं नाम निग्रहस्थानं भवति ॥
. [ न्यूनस्यादोषत्वाक्षेपः, समाधानं च ] अत्राह-प्रतिज्ञाद्यवयवजातमसाधनाङगवचन मित्यतः तदनभिदधतो न निग्रहः ; 'प्रत्युत 'द'तो निग्रहो युक्त इतिः-अत्रोच्यते--अनन्तरमेव तत्परिहृतम , विस्तरतश्चावयवलक्षणे। तथा हि-श्रीतुराकाङक्षानिवृ. तयेऽनमानवाक्यं प्रयुज्यत इति प्रथमं तदाकाङक्षाविषयः साध्यधर्मविशिष्टी धर्मो प्रदश्यते। ततः कारणाकाङक्षायां हेतुवचनमभिधीयते। क्वास्य प्रतिबन्धो दृष्ट इति बुभुत्सायां उदाहरणमुपपाद्यते। इत्थमेष सिद्धप्रतिबन्धों हेतुः मिणि भवेत् , न वेति शङकायामुपनयवचनमुच्चार्यते। तदनन्तरं सर्वावयवानामेकत्रे पसंहाराय निगमनं प्रयुज्यत इत्यन्यतमस्याप्रयोगात् निग्रहार्हता भवत्येवेत्यलमत्रैव वस्तुनि पदे पदे कलहप्रस्तावनेनेति ॥
[ अधिकम् ] हेतूदाहरणाधिकमधिकम् ॥५.२.१३ ॥ एकेनैव हेतुना दृष्टान्तेन वा प्रतिपादितेऽर्थे हेत्वन्तरं दृष्टान्तान्तरं वा प्र युजानस्य अधिकं नाम निग्रहस्थानं भवति । एतच्च वादे तावद्वीतराग
* कदाचिस्तु पूर्वसमयबन्धानुरोधेनान्यथापि संभवः ॥ 1 तदू-ख.