Book Title: Nyayamanjari Part 02
Author(s): K S Vardacharya
Publisher: Oriental Research Institute

Previous | Next

Page 731
________________ 698 न्यायमञ्जरी [अप्राप्तकालम् ] अवयवाविपर्यासवचनमप्राप्तकालम् ॥५-२-११॥ प्रतिज्ञाहेतूदाहरणोपनयनिगमनवचनक्रममतिलङघय-अवयवविपर्या सेन प्रयुज्यमान मनुमानवाक्यम'प्राप्तकालं नाम निग्रहस्थानं भवति ॥ - [पदानां प्रयोगक्रमे धर्मकीत्याक्षेपः] अत्राह-न हि पदानां वाक्येषु नियतः क्रमः कश्चिदस्ति। नियतक्रमका हि वर्णाः पदतामापद्यन्त इति युतम्, तदन्तरेण तदर्थानवग. मात्। न हि टव इत्युक्ते घटावगतिमवति। वाक्येषु तु 'देवदत्त ! गां शुक्लामभ्याज दण्डेन' 'दण्डेन शुक्लां गामभ्याज, देवदत्त!' इति क्रमान्तरेगापि तथैवार्थप्रतिपतेः किं क्रमेण। अनुमानवाक्ये तु 'पंचावयवाः' इत्येतदेव तावत् प्रथममसांप्रता, प्रतिज्ञाद्यवयवानामसाधानाङगवचनत्वात् । तत्र तेषां पंचावयवानामपि प्रयोगः, प्रयोगेऽपि च क्रमो विवक्षितः, तदुल्लङघनं च निग्रहस्थानमिति महती मूर्खप्रक्रियेति ॥ [न्यायाबयवेषु क्रमः नियतः ] __ अत्रोच्यते-वाक्यान्तरेषु क्रमविवक्षा भवतु, मा वा भूत् ; नानेन नः प्रयोजनम्। अनुमानवाक्ये तु आर्थः क्रमः बलादापतति, स्वप्रति पत्त्यनुसारेग परप्रतिपतेरुपादनात् । स्वातिपतौ च निदर्शन-तद्गतहेतुधर्मावधारण-प्रतिबन्धस्मरण-परामर्शज्ञान-साध्यनिश्चयानां क्रमेण दर्शनात् परं प्रति तथैव तदभिधानं कर्तव्यमिति सविस्तरमवयवलक्षणं वस्तु क्रिविधं बवेत् । तत्र विज्ञानवादिनः परिकल्पितस्वभाववादिनः। इतरौ तु परिनि म्पन्न स्वभाववादि नौ । माध्यमिकास्तु निस्त्वभाववादिनः। अतश्च स्वभावक्रय. शून्यभ्वात्वस्तुनः, ते शून्यवादिन इत्येव तत्वम् ॥ 1 म-ख, ' क्रमा-ख, 'मापे-ख, 'माणतय-ख. .

Loading...

Page Navigation
1 ... 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794