Book Title: Nyayamanjari Part 02
Author(s): K S Vardacharya
Publisher: Oriental Research Institute

Previous | Next

Page 724
________________ द्वादशमाह्निकम् 691 अविशेषाभिहिते हेतौ प्रतिषिद्ध तद्विशेषणमभिदधतः हेत्वन्तरं नाम निग्रहस्थानं भवति। यथा सांख्यस्येत्थंवदतः एकप्रकृतीदं *व्यक्तम् परिमाणात्, घटादिवत्' इति । द्विविधं च विकारेषु दृष्टम्-इयत्तालक्षणमङकुरादेः फलान्तरस्य, चतुरश्रता च 'घंटादेः मृत्पूर्वकस्य। तदे तत्परिमितं "नि कारजात मेकप्रकृतिक दृष्टमित्यतः सर्वमिदमेकप्रकृति भवितुमर्हति । या च सैका प्रकृतिः, तत् प्रधानमिति || - अस्य हेतोय॑भिचारः, नानाप्रकृतीनामपि परिणामदर्शनादिति । तत्परिजिहीर्षया विशेषणमाह-समन्वयादिति। सुखदुःखमोहसमन्वितं हि सर्व व्यक्तं परिमितं दृश्यत इति। तस्य प्रकृत्यन्तररूपसमन्वयाभावादेकप्रकृतिकवामिति । तदिदं हेत्वन्तरं निग्रहस्थानम् , प्रागुक्ता विशे. षण हेतोः स्वयमेव हेतुत्वामर्षणादिति ॥ [अनेकान्तिकात् हेत्वन्तरस्य विशेषः] अत्राह-किमयं दग्धो दह्यते, मृतो वा मार्यते। अनैकान्तिकहेतू. पन्यासेनैव खल्वयं तपस्वी निगृहीत एव, असाधनाङगवचनादिति कृतं' हेत्वन्तराख्यनिग्रहस्थानान्तरोदीरणेनेति - अत्रोच्यते - युक्तमेव तत् द्वितीये वचसि कथासमाप्तौ यथा तु भवानाह। यदा तु व्यभिचारनिराकरणाय विशेषणमपरमधिकमधुनाऽभिधातुं प्रवृत्तः, तदा तदुपादानादेव निगह्यत इति पिष्टपेषणं संप्रत्येवाय मिष्यते। पुरुषशक्तिपरीक्षात्मके च जल्पे निग्रहस्थानमिदम्। वादे तु विशुद्धाशयतया वस्तुनि परीक्ष्यमाणे विशेषणान्तरोपादानेऽपि तद्विचारः प्रस्तोतव्यः, न निग्रहः कार्य इत्यभि. युक्ताः ॥ * व्यक्तं-महदादिस्थूलजगदन्तम् । निरा-ख, घ, च, क्तस्य-ख, . 1 तू-ख, " स्य-ख, प-ख, किं-ख.

Loading...

Page Navigation
1 ... 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794