________________
द्वादशमाह्निकम्
691 अविशेषाभिहिते हेतौ प्रतिषिद्ध तद्विशेषणमभिदधतः हेत्वन्तरं नाम निग्रहस्थानं भवति। यथा सांख्यस्येत्थंवदतः एकप्रकृतीदं *व्यक्तम् परिमाणात्, घटादिवत्' इति । द्विविधं च विकारेषु दृष्टम्-इयत्तालक्षणमङकुरादेः फलान्तरस्य, चतुरश्रता च 'घंटादेः मृत्पूर्वकस्य। तदे तत्परिमितं "नि कारजात मेकप्रकृतिक दृष्टमित्यतः सर्वमिदमेकप्रकृति भवितुमर्हति । या च सैका प्रकृतिः, तत् प्रधानमिति ||
- अस्य हेतोय॑भिचारः, नानाप्रकृतीनामपि परिणामदर्शनादिति । तत्परिजिहीर्षया विशेषणमाह-समन्वयादिति। सुखदुःखमोहसमन्वितं हि सर्व व्यक्तं परिमितं दृश्यत इति। तस्य प्रकृत्यन्तररूपसमन्वयाभावादेकप्रकृतिकवामिति । तदिदं हेत्वन्तरं निग्रहस्थानम् , प्रागुक्ता विशे. षण हेतोः स्वयमेव हेतुत्वामर्षणादिति ॥
[अनेकान्तिकात् हेत्वन्तरस्य विशेषः] अत्राह-किमयं दग्धो दह्यते, मृतो वा मार्यते। अनैकान्तिकहेतू. पन्यासेनैव खल्वयं तपस्वी निगृहीत एव, असाधनाङगवचनादिति कृतं' हेत्वन्तराख्यनिग्रहस्थानान्तरोदीरणेनेति - अत्रोच्यते - युक्तमेव तत् द्वितीये वचसि कथासमाप्तौ यथा तु भवानाह। यदा तु व्यभिचारनिराकरणाय विशेषणमपरमधिकमधुनाऽभिधातुं प्रवृत्तः, तदा तदुपादानादेव निगह्यत इति पिष्टपेषणं संप्रत्येवाय मिष्यते। पुरुषशक्तिपरीक्षात्मके च जल्पे निग्रहस्थानमिदम्। वादे तु विशुद्धाशयतया वस्तुनि परीक्ष्यमाणे विशेषणान्तरोपादानेऽपि तद्विचारः प्रस्तोतव्यः, न निग्रहः कार्य इत्यभि. युक्ताः ॥
* व्यक्तं-महदादिस्थूलजगदन्तम् ।
निरा-ख, घ, च,
क्तस्य-ख,
. 1 तू-ख, " स्य-ख,
प-ख, किं-ख.