SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ 690 भ्यायमञ्जरी अपि च द्यूतपराजितपणरहित'शठ'कितव वदु'दासीनः प्रतिज्ञामजहदपि हेतावनैकान्तिके किमसौ न निगृह्यते । न हि प्रतिज्ञायास्त्यागात्यागौ तदीययोः' निग्रहानिग्रहयोः प्रयोजकौ, अपि तु हेतुगुणदोषावेव। स चायं साधनव्यभिचारादेवा नित्य पक्षः पराजीयत इत्यलं सन्न्यासेनेति ॥ ___ [ धर्मकीराक्षेपपरिहारः] अत्रोच्यते-परोद्भावितहेत्वनैकान्तिकत्वदूषणोद्धरणरणरणकतर लितमतेः भवेदप्ययं प्रमादः। एवं ह्यसौ वदति 'मयोक्तं-संयोगवियोग ध्यङगयः शब्दो न भवति, न त्वनित्यः' इति ॥ ___ अयमाशयस्त्वेवंदतः-किल संयोगविभागानभिव्यङगयत्वे मया पक्षीकृते, सामान्येन व्यभिचारो न भविष्यतीति । तदपि हि तादृशमेव, . स्वाश्रयव्यङगयत्वादिति मुह्यतः नातिस्थूलममुमीदृशं प्रमादं प्रतिपन्नस्य भवत्येव निग्रहहेतुः । अप्रमादिनोस्तु निग्रहो नाम नास्त्येव कश्चिदिह लोके परलोके वा* ॥ यत्तु तदीययोः प्रतिज्ञात्यागात्यागयोरनैकान्तिकत्वेनैवासौ निगृह्यत इति-स्या देतदेवं, यदि व्यभिचारोद्भावनसमनन्तरमसौ तूष्णीमेवासीत । तथाविधं तु ब्रुवाणस्तस्यैव पराजयहेतोस्सन्निकृष्टत्वात्तेनैव निगृहीतो भवति, नानकान्तिकप्रयोगेणेति ॥ [ हेस्वन्तरम् ] अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषामिच्छतो हेत्वन्तरम् ॥५-२-६॥ ___ * 'प्रमादं वै मृत्युमहं ब्रवीमि सदाऽप्रमादममृतत्वं ब्रवीमि' इति वचनम् ॥ यौ-ख, सिद्ध-ख, ' ___1 एव-ख, व-ख, । हः-ख, 'दिति-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy