SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ 689 द्वादशमाह्निकम् [ भाट्टोक्तोदाहरणम् ] भाट्टौस्तु *भवदीयं निरालम्बनसाधनं प्रतिज्ञाविरोधोदाहरणं वणितम् -'निरालम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वात्' इति। यतः प्रत्ययत्वहेतु ग्राहकज्ञानसालम्बनत्वे तेनै वैषा प्रतिज्ञा विरुद्धध्यते । तन्निरालम्बनत्वे तु हेत्वभाव एव स्यादिति। तदुक्तम् 'विस्पष्टश्चाक्षपादोक्तो विरोधो हेतुसाध्ययोः । यमदृष्टवा परैरुक्तमदूषणमिदं किल' इति ॥ तत् सर्वथा सुलभोदाहरणमिदं प्रतिज्ञाहेतुविरोधाख्यं निग्रहस्थानमिति स्थितिः ॥ [ प्रतिज्ञासंन्यासः] पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः ॥ ५-२-५ ।। पक्षसाधने परेण दूषिते तदुद्धारणाशक्त्या प्रतिज्ञामेव निढ्वानस्य प्रतिज्ञासन्न्यासो नाम निग्रहस्थानं भवति || 'अनित्यः शब्दः, ऐन्द्रियकत्वात्' इत्युक्ते, तथैव सामान्यनानकान्ति. कतायामुद्धा टितायां, यत् प्रतिब्रवीति—'क एवमाहानित्यः शब्द इति. -सोऽयमेवंब्रुवन् प्रतिज्ञासन्न्यासात् पराजीयते ॥ [प्रतिज्ञासंन्यासे धर्मकीक्षेिपः] .. अत्राह-अतिस्थूलः खल्वयं प्रमादः। को हि नाम प्रतिवादी प्राश्निकसन्निधाने प्रतिज्ञां कृत्वा, तदैव तेषामेवाभ्रष्टसंस्काराणां पुरतः अपस्मारकाद्यनुपप्लुतमतिः तामेव निह्नवीत ॥ * भवदीयम्-इत्यत्र भवच्छन्दः बौद्धपरः॥ 1व-ख, टुंकि-ख, प्र-ख. 44
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy