________________
688
न्यायमञ्जरी निरूपणावसरे स यदि तदातदोषादोषदर्शनात् विरुद्धता तस्याभिधीयते । यथा भवद्भिः 'नित्यः शब्दः, कृतकत्वात्' इति विरुद्धहेतौ वणि ते क्वचित् सिद्ध साध्यस्य दृष्टान्तहीनतादिदोषान्तरसंभवे तदवधीरणया विरुद्धत्वमेव दशितम्। यथा वा हेत्वाभासलक्षणे कथितमस्माभिः 'अनित्यः शब्दः, चाक्षुषत्वात्' इत्यस्यानकान्तिकत्वदोषे सत्यपि प्रथमतरमसिद्धतैव हृदयपथमवतरति, तेनासिद्धोऽयमुच्यते, न सव्यभिचार इति । एवमि. हापि हेतुगुणदोषविचारे क्रियमाणे विरुद्धतादिहेत्वाभासताऽस्य कथ्यते॥
यदा तु परार्थानुमानवाक्यस्य पंचावयवस्य, परमतेन वा व्यवय - वस्य परस्परान्वितपदार्थसमुदायात्मा वाक्यार्थश्चिन्त्यते, तत्र इतरेतर. व्याहतार्थवादिनोः प्रतिज्ञाहेतुपदयोः असंसर्गात् तद्विरोध एव झटिति मनसि विपरिवर्तत* इति स एव निग्रहनिमित्तं भवितुमर्हति, यत इतरे. तरविरोधिनमनन्वितार्थमभि दधति वाक्ये ऽपि विप्रतिएत्तिरप्रति. पत्तिर्वा भवेदित्यद एव निग्रहस्थानम् ॥
. [विरुद्ध प्रतिज्ञाविरोधयोर्विशेषः] . अपि च साध्यविपर्ययसाधक एव विरुद्धहेतुरुच्यते, 'यः प्रतिज्ञा'मेव बाधते। इह तु प्रतितया हेतुर्बाध्यते, प्रतिज्ञा वा हेतुनेति विकल्प्यमानत्वात् निग्रहस्थानान्तरमेवेदम् ॥
इत्थमस्यैवोदाहरणस्योपपत्तेः उदाहरणान्तरनिरूपणं वृथाऽटाट्यैव ॥
* तथाच वस्तुदृष्टया हेत्वाभासः, उक्तिदृष्टया निग्रहस्थानमित्युक्तम् ॥
___1 त-ख, sप्र-ख
तोवण्य-ख हेतु-खः
५ तेव-ख,
'वद-ख,