________________
687
द्वादशमाह्निकम्
सिद्धत्वे वा
गुणव्यतिरिक्तद्रव्यवादिनो हि भेदेनाग्रहण' मसिद्धो हेतुः । साध्यविपर्ययसाधनत् विरुद्ध इति । अतो हेत्वाभासग्रहणेन गतार्थत्वात् न पृथग्वक्तव्यमिदं निग्रहस्थानम् ॥
[ उदाहरणान्तरस्याप्यसाधुत्वम् ]
यत् अन्यदन्यैरुदाहरणमभाणि 'नित्यः शब्दः सर्वस्यानित्यत्वात् इति तदप्यसाधु- वैधर्म्यदृष्टान्तस्यानेन प्रकारेण कुशिक्षितैरभिधानात् । तथा हि- सर्वशब्दोऽत्र सावयववचन इति निरवयवत्वं हेतुविवक्षितः - 'नित्यः शब्दः, निरवयवत्वात्' ' इति । तत्र वैधर्म्यदृष्टान्तः साध्याभावे हेतोरभाव प्रदर्शयता वक्तव्यम् - नित्यः शब्दः, अनित्य सर्वत्वात् - सावयवत्वात् इति । सोऽयमशिक्षितवैधर्म्यदृष्टांत प्रदर्शनप्रक्रमैः विपर्य - येण वैधर्म्यदृष्टान्त एव कथितः 'सर्वस्यानित्यत्वात्' इति । तदुक्तं -
'सहि दुष्टान्त एवोक्तः वैधर्म्येण सुशिक्षितैः' । इति । तस्मान्नेदमपि प्रतिज्ञाहेतुविरोधोदाहरणमिति ॥
[ धर्मकीर्तिदूषणपरिहार : ]
'अत्रोच्यते यदुक्तं - हेतोरसंभवान्नेदं निग्रहस्थानम् - इति - तदचारु - पंचम्यन्तनिर्दिष्टस्य हेतोः प्रदर्शितत्वात् । निरवद्यहेत्वभावात्तु यदि तदसंभव उच्यते, तहि हेत्वाभासव्याकरणमध्यकरणीयं भवेत् । पुरुषबुद्धिप्रमादनिबन्धन हे 'तु' प्रयोगस्तु तथाविधमप्यभिधानं संभवत्येव ॥
[ हेत्वाभासनिग्रहस्थानयो वैलक्षण्यम् ]
यप्पुनरभ्यधायि – संभवन्नपि हेतुरयम् असिद्धविरुद्धयोरन्यतरो भवेत्, न दूषणान्तरमिति - तत्र ब्रूमः - सत्यमेतत् किन्तु हेतुस्वरूप
1
ग-ख,
2
3 मू-ख,
त्वाभास-ख.