________________
686
न्यायमञ्जरी तृती'ये वचसि स्थितश्चैवमसावुक्तवानिति' निमित्तान्तरमिदमस्य निग्रहे निरूपितम्। द्वितीय एव तु वचसि कथाविरतौ हेत्वाभासप्रयोगादेव निग्रहमाप्नुयादिति प्रतिज्ञाहानिप्रस्ताव एवोक्तम् ॥
[प्रतिज्ञाविरोधः ] प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ।। ५.२.४ ॥
यत्र प्रतिज्ञा हेतुना विरुद्व यते, हेतु प्रतिजया, सः प्रतिज्ञाविरोधो नाम निग्रहस्थानं भवति। 'गुणव्यतिरिक्तं द्रव्यम्' इसि प्रतिज्ञा; 'रूपादिभ्योऽर्थान्तरस्यानुपलब्धेः' इति हेतुः। सोऽयं प्रतिज्ञाहेत्वोविरोधःयदि गुणव्यतिरिक्तं द्रव्यम्, न तर्हि रूपादिभ्योऽर्थान्तरस्यानुमलब्धिः । अथ रूपादिभ्योऽर्थान्तरस्थानुपलब्धिः, न तहि गुणव्यतिरिक्तं द्रव्यम् । गुणव्यतिरिक्त च, द्रव्यं च, रूपादि व्यतिरिक्त स्यानुपलधेरिति याहतम् ॥
[धर्मकीाक्षेपः ] अत्राह-नेदं प्रतिज्ञाहेत्वोविरोधोदाहरगं भवतुमर्हति, हेतोरसंभ: वात्। संभवन हि हेतुः प्रतिज्ञाया विरुणद्धि । तया वा विरुद्धयते। इह तु उपलब्धिलक्षणप्राप्तस्यानुपलब्धिः न समस्त्येव, रूपादिभ्योऽर्थान्तरस्य पृथक्त्वेनोपलब्धियोग्यत्वानुपपत्तः। संभवन्नपि चैवंविधे विषये प्रतिज्ञा. विरोधे हेतुः न द्वयों दोषजातिमतिवर्तते-विरुद्धत्वम् , *असिद्धत्वं वा।
___ * असिद्धत्वं-स्वरूपासिद्धिः॥ .
1 गि-ख,
'रू-ख,
भिश्चार्थांन्तर-ख.