________________
द्वादशमाह्निकम् ।
685 ननु ! विशेषणमेतदनेकान्तिकत्वपरिहारार्थम्, न प्रतिज्ञान्तरमित्युक्तम्-न-असिद्धत्वात। *सिद्धं हि विशेषणं भवति। नित्यत्ववादिनं च प्रति शब्दस्यासर्वगतत्वमसिद्धम्। साध्यते चेत् , तहि प्रतिज्ञान्तरमेवेदम् , हेत्वाद्यवयववैलक्षण्यात्, प्रतिज्ञालक्षणस्य च साध्यनिर्देशस्योपपत्तेः। अनैकान्तिकत्वपरिहृतये हि हेतुविशेषणं सिद्धं वाच्यम् , न तु मिविशेषणं साध्यं चेति ॥
- [ हेत्वाभासताऽप्यस्य न युक्ता ] अन्यतरासिद्ध तु हेत्वाभासे तत्समर्थनं प्रक्रमानुरूपमेवेति न प्रति. नान्तरं निग्रहस्थानं भवति। इह तु अनैकान्तिकत्वपरिहाराय यतमानः मार्गमनुगुणमपश्यन् स्खलित इति निगृह्यते । न च हेतूदादरणादिप्रयोगनिपुणमंतेरपि भ्रमादेवंविधमभिधानं न संभवति। न च प्रतिज्ञामात्रेण सिद्धिमिच्छन्नेवं ब्रवीति, अपि तु व्यभिचारं परिजिहीर्षन्निति ॥
[नाप्यस्यासंबद्धत्वम् ] · न चायमुन्मत्तप्रलाप एव, प्रस्तुतानुगुण्यबुद्धया प्रयोगात्। अपि च 'अनित्यः शब्दः, चाक्षुषत्वात्' इत्युभयासिद्धो नाम हेत्वाभासः भवद्भिरपि शास्त्रे लक्षित एव। स उन्मत्तप्रलापो न भवति! यथोदाहृतम तत् प्रतिज्ञान्तरमुन्मत्तप्रलाप इत्यपूर्व एष भिक्षोः स्वदर्शने रागः, परदर्शने द्वषो वा। को हि नाम शिशुरपि शब्दे चाक्षुषतां ब्रूयात् ।
इदं तु संभवत्येवाभिधानम् । केवलं हेतुविशेषणे सिद्ध च बक्तव्ये भ्रमात् धर्मिविशेषणं साध्यं चायमुक्तवानि ति निगृह्यते ॥
* सिद्धत्वे तु हेवन्तररूपं निग्रहस्थानं भवति ॥ + इदं-शब्दः अनित्यः, ऐन्द्रियकवादित्यादि ।
1 प्र-ख,
ति-ख.