________________
684
न्यायमञ्जरी 'अनित्यः शब्दः, ऐन्द्रियकत्वात्' इत्युक्ते, पूर्ववत् सामान्येन व्यभि. चारोद्भावनया प्रत्यवस्थित आह–'सामान्यमैन्द्रियकं यन्नित्यं, तद्युक्तम् । तद्धि सर्वगतम्। असर्वगतस्तु शब्द 'इति नो दर्शनम्' इति। सोऽयं 'अनित्यः शब्दः' इति पूर्वप्रतिज्ञातः अन्यम् 'असर्वगतः शब्दः' इति प्रतिज्ञा कुर्वन् प्रतिज्ञान्तरेण निगृहीतो भवति ॥
[धर्मकीक्षेिपः] अत्राह-नेदमप्रस्तुतप्रतिज्ञान्तरकरणम् , अपितु परोद्भावितव्यभि- . चारनिराकरणविशे षोत्पादनम् ॥
एतदुक्तं भवति-असर्वगतत्वे सत्यन्द्रियकत्वादनित्यः शब्द इति । तदिदमसर्वगतत्वप्रतिज्ञासिद्धयर्थमुपात्तं कथं निग्रहस्थानम्। यो हि । मीमांसकं प्रति 'अनित्यः शब्दः, कृतकत्वात्' इत्युक्तवान् तेन कृतकत्वम. सिद्धमित्युपालब्धः, कृतक त्वसिद्धये यतेत, स किं कृतकत्व प्रतिज्ञान्तरकर णानिगृह्येत॥ ___ यस्तु पूर्वप्रतिज्ञामवधीर्य, तदनौपयिकमकस्मादेव प्रतिज्ञान्तरमारभेत, स तदा उन्मत्त एव भवेत्। न चोन्मत्तप्रलापानां शास्त्रे लक्षणकरणं युक्तम् । स्पष्टे च निग्रहहेतौ हेत्वाभासाभिधाने संभवति किमिति प्रतिज्ञान्तरं निग्रहस्थानमुच्यत इति ॥
[भक्षेपस्य समाधानम् ] अत्रोच्यते-प्रतिज्ञासिद्धये हेतुदृष्टान्तौ प्रयोक्तव्यौ, न पुनः प्रतिज्ञान्तरं करणीयमिति स्थितिः। इह च यो हेतुः अनेनोपात्तः तस्मिन् परेणानकान्तिकीकृते सति, न तत्परिहार प्रकारमनुगुणमयमास्थितवान् । अपि तु असर्वगतत्वप्रतिज्ञामन्यामारूढः॥
1 इ-ख,
५ वा-ख,
गोपादा-ख, * त्वे-ख,
राय-च.