________________
द्वादशमा हिकम्
683 __सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता।
तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत्' इति ॥ प्रतिदृष्टान्तधर्म च स्वदृष्टान्तेऽभ्युपगच्छन् उत्सृजत्येव प्रतिज्ञाम् । नित्यत्वं हि सामान्यवत घटस्यापि सहते। तंदृष्टान्तबाले'न शब्देऽपि सिषाधयिषतीति नूनमिदानी नित्यत्वमेव घटधर्मः शब्दे सिद्धयेदिति कथं तदनित्यत्वप्रतिज्ञाऽस्य न हीयते ॥
[ अकान्तिको द्भावनं नालम् ] यत्तूक्तं हेत्वाभासप्रयोग एव निग्रहनिमित्तम् , न प्रतिज्ञाहानिरितिस्यादेतदेवम् , *यदि द्वितीय वचसि व्यवस्थितेन प्रतिवादिना व्यभिचा. रोद्भावनया प्रत्यवस्थितो वादी तावत्येव विरमेत् । स तु तृतीये वचसि. वर्तमानः तदुद्धरणबुद्धया तथाविधमभिधत्ते, येन प्रतिज्ञां जहाति। अतश्च व्यभिचारपरिहरणलोभ भिहितातिदृष्टान्तधर्माभ्यनज्ञ वचनोप. नततदर्थप्रतिज्ञाहानिनिबन्धन एवास्य निग्रहो युक्तः, न हेत्वाभासप्रयोगकृत इति अयमेव मुख्यः प्रतिज्ञाहानेविषयः॥
[प्रतिज्ञान्तरम् ] प्रतिज्ञातार्थप्रतिषेधे धर्मे विकल्पात्तदनिर्देश:
प्रतिज्ञान्तरम् ॥ ५.२.३ ॥ प्रतिज्ञातार्थप्रतिषेधे परेण कृते, तत्रैव धमिणि धर्मान्तरं साधनीय. वादिनः प्रतिसान्तरं मभिदधतो नाम निग्रहस्थानं भवति ॥
तावत्येव वादी यदि विरमेत , तदा रयादेतदेवम् इत्यन्वयः॥
1 धे-खः